Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 268
________________ लोकप्रकाशे १० भवसंवे. ॥१२२॥ Jain Educatio नम् ||१२|| भावनैवं वैक्रियवैक्रियादिबन्धनेष्वपि । स्वयं विचक्षणैः कार्या दिङ्मात्रं तु प्रदर्शितम् ॥ ९३ ॥ षट्कं संहननानां संस्थानानां षट्कमेव च । वर्णाः पञ्च रसाः पञ्चाष्टौ स्पर्शा गन्धयोर्द्वयम् ॥ ९४ ॥ तत्र वर्णो नीलकृष्णौ, कटुतिक्ताभिधौ रसौ । गुरुः खरो रुक्षशीताविति स्पर्शचतुष्टयम् ॥ ९५ ॥ दुर्गंधचेति नवकमशुभं परिकीर्तितम् । वर्णगन्धरसस्पर्शाः, शेषास्त्वेकादशोत्तमाः ॥ ९६ ॥ आनुपूर्व्यश्चतस्रः स्युश्चतुर्गतिसमाभिधाः । द्विधा विहायोगतिः स्यात्प्रशस्तेतर भेदतः ॥ ९७ ॥ एवं भेदाः पञ्चषष्टिः, पिण्डप्रकृतिजाः स्मृताः । पञ्चानामौदारिकादिबन्धनानां विवक्षया ॥ ९८ ॥ सा पञ्चषष्टिरष्टाविंशत्या प्रकृतिभिः पुरोक्ताभिः प्रत्येकाभिर्युक्ताः स्युर्नानस्त्रिनवतिर्भेदाः ॥ ९९ ॥ ( आर्या ) बन्धनानां पञ्चदशभेदत्वे च विवक्षिते । स्युर्नामकर्मणो भेदास्त्रिभिः समधिकं शतम् ॥ २००॥ बन्धनसंघातननाम्नामिह पञ्चदशपञ्चसंख्यानाम् । सह बन्ध सजातीयत्वाभ्यां न खाङ्गतः पृथग्गणनम् ॥ १॥ गीतिः ॥ कृष्णादिभेदभिन्नाया, वर्णादिविंशतेः पदे । सामान्येनैव वर्णादिचतुष्कमिह गृह्यते ॥ २ ॥ पूर्वोक्तत्रयुत्तरशतादेषां षट्त्रिंशतस्ततः । कृतेऽपसारणे सप्तषष्टिर्भेदा भवन्ति ते ॥ ३ ॥ बन्धे तथोदये नाम्नः, सप्तषष्टिरियं मता । षडूविंशतिश्च मोहस्य, बन्धे प्रकृतयः स्मृताः ॥ ४ ॥ सम्यक्त्वमिश्रमोहौ यज्ज्ञातु नो बन्धमर्हतः । एतौ हि शुद्धाशुद्धमिध्यात्वपुद्गलात्मकौ ॥ ५ ॥ त्रिपञ्चाशत्प्रकृतयस्तदेवं शेषकर्मणाम् । नाम्नश्च सप्तषष्टिः स्युः, शतं विंशं च मीलिताः ॥ ६ ॥ अधिक्रियन्ते बन्धे ता, उदयोदीरणे पुनः । सम्यक्त्वमिश्रसहितास्ता द्वाविंशं शतं खलु ॥ ७ ॥ नाम्नख्याढ्यं शतं पञ्चपञ्चाशत् शेष tional For Private & Personal Use Only नाम्नो भेदे विविधता २० jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288