Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीवाचकेन्द्रा दशमः सुधारसमा सर्गः संपूर्णः ।।
O900999999999
कारादितिजिनसमयाद भूरिसारादपारादुचित्योचित्य मुक्ता इव नवसुषमा युक्तिपकीरनेकाः। तृप्ता जीवखरूपप्रकरणरचना योरुमुक्तावलीव, सोत्कण्ठं कण्ठपीठे कुरुत कृतधियस्तां चिदुद्बोधसिद्ध्यै ॥१॥ (स्रग्धरा) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गोऽयं दशमः सुधारससमः पूर्णः सुखेनासमः॥१॥ ग्रन्थाग्रम् ३१०अ०८
॥ इति श्रीलोकप्रकाशे दशमः सर्गः संपूर्णः॥
॥ एकादशः सर्गःप्रारभ्यते ॥ पुद्गलानामस्तिकायमथ किश्चित्तनोम्यहम् । गुरुश्रीकीर्तिविजयप्रसादप्राप्तधीधनः ॥१॥ द्रव्यक्षेत्रकालभावगुणैरेषोऽपि पञ्चधा । अनन्तद्र्व्यरूपोऽसौ, द्रव्यतस्तत्र वर्णितः ॥२॥ लोक एवास्य सद्भावात्, क्षेत्रतो लोकसंमितः । कालतः शाश्वतो वर्णादिभिर्युक्तश्च भावतः॥ ३ ॥ गुणतो ग्रहणगुणो, यतो द्रव्येषु षट्स्वपि । भवेद् ग्रहणमस्यैव, न परेषां कदाचन ॥४॥ भेदाश्चत्वार एतेषां, प्रज्ञप्ताः परमेश्वरैः । स्कन्धा देशाः प्रदेशाच, परमाणव एव च ॥५॥ अनन्तभेदाः स्कन्धाः स्युः, केचन द्विप्रदेशकाः। त्रिप्रदेशादयः| सङ्ख्यासङ्ख्यानन्तप्रदेशकाः॥६॥ सूक्ष्मस्थूलपरीणामाः, स्युः प्रत्येकमनन्तकाः । एकक्षणाद्यसयेयकालान्तस्थितिशालिनः॥७॥ द्विप्रदेशादिकोऽनन्तप्रदेशान्तो विवक्षितः। स्कन्धसंबद्धो विभागः, स भवेद्देशसंज्ञकः ॥८॥ निर्विभाज्यो विभागो यः, स्कन्धसंबद्ध एव हि । परमाणुप्रमाणोऽसौ, प्रदेश इति कीर्तितः
09-
9808093E
१
१४
Jain Educat
i onal
For Private & Personel Use Only
IXww.jainelibrary.org

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288