Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे ११ पुद्गलस. ॥१२६ ॥
Jain Educatio
॥ ९ ॥ कार्यकारणरूपाः स्युर्द्विप्रदेशादयो यथा । द्विप्रदेशो द्वयोरण्योः, कार्य व्यणुककारणम् ॥ १० ॥ परमाणुस्त्वप्रदेशः, प्रत्यक्षो ज्ञानचक्षुषाम् । कार्यानुमेयोऽकार्यश्च भवेत्कारणमेव सः ॥ ११ ॥ यदाहुः - "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १२ ॥” ( आर्या ) तत्रापि - शीतोष्णस्निग्धरूक्षेषु, द्वौ चतुर्ष्वविरोधिनौ । स्पर्शो स्यातां परमाणुष्वपरे न कथञ्चन ॥ १३ ॥ तथाहु: - "परमाण्वादीनामसङ्ख्यातप्रदेशकस्कन्धपर्यन्तानां केषाञ्चिदनन्तप्रादेशिकानामपि स्कन्धानां, तथा एकप्रदेशावगाढानां यावत्सङ्ख्यातप्रदेशावगाढानां शीतोष्णस्निग्धरूक्षरूपाश्चत्वार एव स्पर्शा" इति प्रज्ञापनावृत्तौ । द्रव्यक्षेत्रकालभावैः, परमाणुश्चतुर्विधः । द्रव्यतोऽणुः पुद्गलाणुश्चतुर्लक्षण एव सः ॥ १४ ॥ अदाह्यो| ग्राह्य एवासावभेद्योऽच्छेद्य एव च । क्षेत्राणुस्त्वभ्रप्रदेशश्चतुर्लक्षण एव सः ॥ १५ ॥ अप्रदेशोऽविभागश्चामध्योऽनर्ध इति स्मृतः । कालाणुः समयाख्यः स्याच्चतुर्लक्षण एव सः ॥ १६ ॥ वर्णगन्धरसस्पर्शे, रहितश्चाथ भावतः । द्रव्याणुरेव वर्णादिभावप्राधान्यतो मतः ॥ १७ ॥ भावाणुरथवा सर्वजघन्यश्यामतादिकम् । इह प्रयोजनं द्रव्यपरमाणुभिरेव हि ॥ १८ ॥ इति भग० श० २० उ० ५ ॥ स नित्यानित्यरूपः स्यात्, द्रव्यपर्या| यभेदतः । तत्र च द्रव्यतो नित्यः, परमाणोरनाशतः ॥ १९ ॥ पर्यायतस्त्वनित्योऽसौ यतो वर्णादिपर्यवाः । नश्यन्त्येके भवत्यन्ये, विस्रसादिप्रभावतः ||२०|| अस्य शाश्वतभावेन, केचित्पर्यवनित्यताम् । मन्यन्ते तदसद् यस्मात् पञ्चमाङ्गे स्फुटं श्रुतम् ॥ २१ ॥ " परमाणुपुग्गले णं भंते ! सासए असासए ?, गो० ! सिअ सासए,
lational
For Private & Personal Use Only
परमाणुखरूपम्
२०
२५
॥ १२६ ॥
२८
www.jainelibrary.org

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288