Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 256
________________ लोकप्रकाशे १० भवसंवे. ॥११६॥ Jain Education भावना स्वयम् ॥ ७ ॥ तथैव भवनेशेषु, ज्योतिष्कव्यन्तरेष्वपि । तिर्यनरौ किलाष्टासु, सौधर्मप्रभृतिषु ॥ ८ ॥ भवानष्टौ पूरयतो भवौ द्वौ च जघन्यतः । इमौ पूरयतः प्रोक्तनारकेषु सुरेषु च ॥ ९ ॥ जघन्यायुटया माघवत्यामुत्पद्यमानकाः । तिर्यग् ज्येष्ठायुरन्यो वा भवान् सप्तैव पूरयेत् ॥ १० ॥ तथाहिसंज्ञी पञ्चेन्द्रियस्तिर्यक्, पूर्व कोट्यायुरन्वितः । जघन्यायुष्टयोत्पन्नः संप्तम्यां नरकावनौ ॥ ११ ॥ ततश्चोद्धृत्य तिर्यक्षु, सप्तम्यां च ततः पुनः । तिर्यक्षु च ततः क्ष्मायां सप्तम्यां च ततः पुनः ॥ १२ ॥ तिर्यक्ष्वेव ततश्वासौ, नोद्भवेत्सप्तमक्षितौ । एवं सप्त भवान् कृत्वाऽष्टमेऽन्यं भवमाप्नुयात् ॥ १३ ॥ तिर्यग् ज्येष्ठायुर्जघन्यायुष्कोऽथोत्कृष्टजीविताम् । अवाशुवन्माघवत्यां भवान् पञ्चैव पूरयेत् ॥ १४ ॥ उत्पद्यते द्विर्नरके, तत्र तिर्यक्षु च त्रिशः । ततञ्चासौ पष्ठभवे, नोद्भवेत्सतमक्षितौ ॥ १५ ॥ उत्कृष्टायुष्टयाऽल्पायुष्टया वा सप्तमक्षितौ । तिर्यग् ज्येष्ठायुरन्यो वा, त्रिभवः स्याज्जघन्यतः ॥ १६ ॥ तत्र तिर्यग्भवौ तु द्वावेकः स्यात्सप्तमक्षितौ । माघवत्या नारकाणां तिर्यक्ष्वेव गतिर्यतः ॥ १७ ॥ चतुर्भङ्गया नरः संज्ञी, सप्तमं नरकं व्रजन् । जघन्यादुत्कर्षतोऽपि, संपूरयेद्भवद्वयम् ॥ १८ ॥ आनतादिचतुष्कल्प्यां, सर्वत्रैवेयकेषु च । चतुर्भयोवन मर्त्यः, सप्तोत्कर्षाद्भवान् सृजेत् ॥ १९ ॥ त्रिर्देवेषु चतुस्तत्र, समुत्पद्य नरेष्वसौ । अवश्यमन्य पर्यायमवामोत्यष्टमे भवे ॥ २० ॥ विजयादिचतुष्के च, भवान् पञ्चैव पूरयेत् । त्रीन् भवान्नृषु मध्यौ च द्वौ भवौ विजयादिषु ॥ २१ ॥ जघन्यतस्त्वानतादिष्वेतेषु निखिलेष्वपि । भवांस्त्रीन्मनुजः संज्ञी, समर्थयेत्समुद्भवन् ॥ २२ ॥ यद्वानतादिदेवानां नृभ्य एवातजन्मनाम् । For Private & Personal Use Only उत्कृष्टायुरादेः संवेधः २० २५ ॥ ११६ ॥ २७ inelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288