SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १० भवसंवे. ॥११६॥ Jain Education भावना स्वयम् ॥ ७ ॥ तथैव भवनेशेषु, ज्योतिष्कव्यन्तरेष्वपि । तिर्यनरौ किलाष्टासु, सौधर्मप्रभृतिषु ॥ ८ ॥ भवानष्टौ पूरयतो भवौ द्वौ च जघन्यतः । इमौ पूरयतः प्रोक्तनारकेषु सुरेषु च ॥ ९ ॥ जघन्यायुटया माघवत्यामुत्पद्यमानकाः । तिर्यग् ज्येष्ठायुरन्यो वा भवान् सप्तैव पूरयेत् ॥ १० ॥ तथाहिसंज्ञी पञ्चेन्द्रियस्तिर्यक्, पूर्व कोट्यायुरन्वितः । जघन्यायुष्टयोत्पन्नः संप्तम्यां नरकावनौ ॥ ११ ॥ ततश्चोद्धृत्य तिर्यक्षु, सप्तम्यां च ततः पुनः । तिर्यक्षु च ततः क्ष्मायां सप्तम्यां च ततः पुनः ॥ १२ ॥ तिर्यक्ष्वेव ततश्वासौ, नोद्भवेत्सप्तमक्षितौ । एवं सप्त भवान् कृत्वाऽष्टमेऽन्यं भवमाप्नुयात् ॥ १३ ॥ तिर्यग् ज्येष्ठायुर्जघन्यायुष्कोऽथोत्कृष्टजीविताम् । अवाशुवन्माघवत्यां भवान् पञ्चैव पूरयेत् ॥ १४ ॥ उत्पद्यते द्विर्नरके, तत्र तिर्यक्षु च त्रिशः । ततञ्चासौ पष्ठभवे, नोद्भवेत्सतमक्षितौ ॥ १५ ॥ उत्कृष्टायुष्टयाऽल्पायुष्टया वा सप्तमक्षितौ । तिर्यग् ज्येष्ठायुरन्यो वा, त्रिभवः स्याज्जघन्यतः ॥ १६ ॥ तत्र तिर्यग्भवौ तु द्वावेकः स्यात्सप्तमक्षितौ । माघवत्या नारकाणां तिर्यक्ष्वेव गतिर्यतः ॥ १७ ॥ चतुर्भङ्गया नरः संज्ञी, सप्तमं नरकं व्रजन् । जघन्यादुत्कर्षतोऽपि, संपूरयेद्भवद्वयम् ॥ १८ ॥ आनतादिचतुष्कल्प्यां, सर्वत्रैवेयकेषु च । चतुर्भयोवन मर्त्यः, सप्तोत्कर्षाद्भवान् सृजेत् ॥ १९ ॥ त्रिर्देवेषु चतुस्तत्र, समुत्पद्य नरेष्वसौ । अवश्यमन्य पर्यायमवामोत्यष्टमे भवे ॥ २० ॥ विजयादिचतुष्के च, भवान् पञ्चैव पूरयेत् । त्रीन् भवान्नृषु मध्यौ च द्वौ भवौ विजयादिषु ॥ २१ ॥ जघन्यतस्त्वानतादिष्वेतेषु निखिलेष्वपि । भवांस्त्रीन्मनुजः संज्ञी, समर्थयेत्समुद्भवन् ॥ २२ ॥ यद्वानतादिदेवानां नृभ्य एवातजन्मनाम् । For Private & Personal Use Only उत्कृष्टायुरादेः संवेधः २० २५ ॥ ११६ ॥ २७ inelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy