SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 329820200 भूयांसो नारकास्ततः ॥ ३६॥ इति दिगपेक्षयाऽल्पबहुता ॥ वनस्पतिज्येष्ठकायस्थितिमानं किलान्तरम् । एषां गरीयो विज्ञेयं, लघु चान्तमुहर्तकम् ॥ ३७॥ इत्यन्तरं ॥ नारकलोकनिरूपणमेवं, कृप्तमशेषविशेषविमुक्तम् । शेषमधोजगदुत्त्यधिकारे, किञ्चिदिहैव विशिष्य च वक्ष्ये ॥ ३८॥ विश्वाश्चर्यदकीर्तिकीर्ति विजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे. |संपूर्णोऽनवमः सुखेन नवमः सर्गो निसर्गाज्ज्वलः ॥ ३९ ॥ ग्रन्थानम् ॥ ४५ ॥ ॥ इति श्रीलोकप्रकाशे नवमः सर्गः समाप्तः॥ . ॥ दशमः सर्गः प्रारभ्यते ॥ इदानीं भवसंवेधः, प्रागुद्दिष्टो निरूप्यते । तत्र ज्येष्ठकनिष्ठायुश्चतुर्भङ्गी प्रपश्यते ॥१॥ आद्यः प्राच्यायभवयोज्येष्ठमायुर्यदा भवेत् । भङ्गोऽन्यः प्राग्भवे ज्येष्ठमल्पिष्टं स्यात्परे भवे ॥२॥ तृतीयः प्राग्भवेडल्पीयो, ज्येष्ठमायुर्भवे परे । आयुर्लघु द्वयोस्तुर्यो, भङ्गेष्वेषु चतुर्वथ ॥३॥ संज्ञी नरोऽथवा तिर्यक, षष्ठ्याद्यनरकेषु वै । पृथक पृथम् भवानष्टावुत्कर्षेण प्रपूरयेत् ॥४॥ यथा संज्ञी नरस्तिर्यगुत्पन्नो नरके कचित् । ततो मृतो मनुष्ये वा, तिरश्चि वा ततः पुनः॥५॥ तत्रैव नरके भूयो, मर्ये तिरश्वि वेति सः । भवानष्टो. समापूर्य, नवमे च भवे ततः ॥ ६॥ अवश्यमन्यपर्यायं, नरस्तिर्यगवाप्नुयात् । वक्ष्यमाणेष्वपि बुधैः, कायदा १३ fecrera Jain Educat onal For Private Personal use only Yonjainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy