________________
५
नरेष्वेवोत्पत्तिरिति, जघन्येन भवास्त्रयः॥२३॥ जघन्याचोत्कर्षतोऽपि, पञ्चमेऽनुत्तरे नरः। त्रीन् भवान् पूरयेन्मोक्षमवश्यं यात्यसो ततः॥ २४ ॥ भवनव्यन्तरज्योतिष्काद्यकल्पद्वयावधि । युग्मिनो नरतियञ्चः, पूरयन्ति । भवद्वयम् ॥ २५॥ जघन्यादुत्कर्षतोऽपि, युग्मिनां यत्सुधाशिषु । उत्पन्नानां पुनरपि, स्यादुत्पत्तिर्न युग्मिषु ॥ २६॥ रत्नप्रभायां भवनाधिपतिव्यन्तरेष्वपि । असंज्ञी पर्याप्ततिर्यग, भवयुग्मं समर्थयेत् ॥ २७॥ यदस्य । नरके स्वर्गे, चोत्पन्नस्य ततः पुनः। असंज्ञितिर्यक्षुत्पत्तिर्भवे नानन्तरे भवेत् ॥ २८ ॥ भवनव्यन्तरज्योतिःसह- सारान्तनाकिनः। आद्यषड्नरकोत्पन्ननारकाश्च समेऽप्यमी॥२९॥उत्पद्यमानाः पर्याप्तसंज्ञितिर्यग्नरेषु वै । पूरयन्ति भवानष्ट, प्रत्येकं तत्र भावना ॥ ३०॥ कश्चिद्भवनपत्यादिश्च्युत्वैकान्तरमुद्भवन् । चतुर्वारं हि पर्याप्तसंज्ञी तिर्यग्नरो भवेत् ॥ ३१॥ ततः स तिर्यग्मों वा, नाप्नुयान्नबमे भवे । पूर्वोक्तभवनेशादिभावं. तादृकू-10 स्वभावतः ॥ ३२॥ संज्ञिपर्याप्ततिर्यक्षु, सप्तमक्षितिनारकाः। पूरयन्ति भवान् षड् येऽनुत्कृष्टस्थितिशालिन ॥ ३३ ॥ उत्कृष्टस्थितियुक्तास्तु, सप्तमक्षितिनारकाः। तेषूत्कर्षाजायमानाः, स्युश्चतुर्भवपूरकाः॥३४॥ आनता-18 दिखश्चतुष्कसर्वप्रैवेयकामराः । उत्पद्यमाना उत्कर्षानृषु षड्भवपूरकाः ॥ ३५ ॥ मनुष्येषूत्पद्यमाना, विजयादिविमानगाः। भवांश्चतुर उत्कर्षात्, पूरयन्ति निरन्तरम् । ॥ ३६ ॥ जघन्यतस्त्वानतादिदेवा विभवपूरकाः। यतश्युतानामेतेषां, नोत्पत्तिर्मनुजान्विना ॥ ३७॥ उत्कर्षतो जघन्याच, सुराः सर्वार्थसिद्धिजाः । मनुष्येषु समुत्पद्य, पूरयन्ति भवद्वयम् ॥३८॥ भवनव्यन्तरज्योतिःसौधर्मशाननाकिनः पृथिव्यप्तरुपूत्पद्यमाना द्विभ-IN
Jain Educa
t ional
For Private & Personal Use Only
Mr.jainelibrary.org