SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १०भवसंवे. ॥११७॥ वपूरकाः ॥ ३९॥ जघन्यादुत्कर्षतोऽपि, भूयोऽप्युत्पत्त्यसंभवात् । तेषां निर्गत्य पृथ्व्यादिर्भवनेशादिनाकिषु उत्कृष्टायु॥४०॥ वायुतेजःकाययोस्तु, देवानां गत्यसंभवात् । तदीयो भवसंवेधो, नात्र प्रोक्तो जिनेश्वरैः ॥४१॥राद असंज्ञिसंज्ञितिर्यञ्चो, नराः संज्ञिन एव च । असंख्यायुतियश्च, पूरयन्ति भवद्वयम् ॥४२॥ युग्मिनां नृतिरश्चां यद्विपद्यानन्तरे भवे । गतिर्देवगतावेव, भगवद्भिर्निरूपिता ॥४३॥ भूकायिकोऽम्भोऽग्निवायुष्वेकान्तरे। परिभ्रमन् । भवानसंख्यान प्रत्येकमनुत्कृष्टस्थितिः सृजेत् ॥ ४४ ॥ एवमम्बुकायिकोऽपि, प्रत्येकं माग्निवायुषु । उत्पद्यमानोऽसंख्ययान्, भवानुत्कर्षतः सृजेत् ॥ ४५ ॥ वहिकायोऽपि पृथ्व्यम्बुकायिष्वेकान्तरं भवान् । कुर्यादसंख्यान निलोऽप्येवं पृथव्यम्बुवहिषु ॥४६॥ तथा क्षमाम्भोऽग्निमरुतः, प्रत्येकं च वनस्पती । भवानसंख्यान कुर्वन्ति, जायमाना निरन्तरम् ॥ ४७॥ एवं वनस्पतिरपि, पृथिव्यादिचतुष्टये । प्रत्येकमुत्पद्यमान:, कुर्यादसंख्यकान् भवान् ॥४८॥ वनस्पतिकायिकेषूत्पद्यमानो वनस्पतिः। भवाननन्तान् कुर्वीत, निरन्तरं परिभ्रमन् ॥४९॥ प्रत्येकमुत्पद्यमानाः, पृथिव्यादिषु पञ्चसु । भवानसंख्यान् विदधति, प्रत्येकं विकलेन्द्रियाः ॥५०॥ प्रत्येक विकलेष्वेवं, पञ्च भूकायिकादयः। प्रत्येकमुत्पद्यमानाः, संख्येयभवपूरकाः ॥५१॥ विकलाक्षेषु संख्येयान्, सर्वेऽपि विकलेन्द्रियाः। भवान् विदध्युः प्रत्येकं, जायमानाः परस्परम् ॥५२॥ पूर्वोक्तायुश्चतुर्भङ्गयां, ॥११७॥ ज्येष्ठायुरुपलक्षिते । भङ्गनये भवानष्टौ, कुर्युः सर्वे क्षमादयः ॥ ५३॥ तथाहि-पृथ्वीकायिक उत्कृष्टायुष्क| उत्कृष्टजीविषु । अप्कायिकेषूत्कर्षेणोद्भवे द्वारचतुष्टयम् ॥५४॥ एवमेकान्तरं वारानुत्पद्य चतुरस्ततः। अवश्य-16 Jain Education For Private & Personel Use Only finelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy