Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 263
________________ ॥ १७ ॥ तेभ्यश्च बादराः पर्याप्तकाः स्युरोघतोऽधिकाः । स्थूला पर्याप्ततरवस्ततोऽसंख्यगुणाः स्मृताः ॥१८॥ अपर्याप्ता बादराः स्युस्तेभ्यो विशेषतोऽधिकाः । सामान्यतो बादराश्च, विशेषाभ्यधिकास्ततः॥ १९॥ असंख्येयगुणास्तेभ्यः, सूक्ष्मापर्याप्तभूरुहः । ततः सामान्यतः सूक्ष्मापर्याप्तकाः किलाधिकाः ॥२०॥ स्युः संख्येयगुणास्तेभ्यः, सूक्ष्मपर्याप्तभूरुहः । इतोऽधिकाधिका ज्ञेया, वक्ष्यमाणाश्चतुर्दश ॥२१॥ सूक्ष्माः पर्याप्तका ओघात, सूक्ष्माः सामान्यतोऽपि च । भव्या निगोदिनश्चौघादोघाच वनकायिकाः॥२२॥ ओघादेकेन्द्रिया ओघात्तिर्यञ्चश्च ततः पुनः । मिथ्यादृशश्चाविरताः, सकषायास्ततोऽपि च ॥२३॥ छद्मस्थाश्च सयोगाश्च, संसारिणस्तचौघतः। सर्वजीवाश्चेति सार्वैर्महाल्पबहुतोदिता ॥ २४॥ एवं जीवास्तिकायो यो, द्वारैः प्रोक्तः पुरोदितः। द्रव्यक्षेत्रकालभावगुणैः स पञ्चधा भवेत् ॥ २५ ॥ अनन्तजीवद्रव्यात्मा, द्रव्यतोऽसावुदीरितः। क्षेत्रतो लोकमात्रोऽसौ, सत्त्वात्तेषां जगत्रये ॥ २६ ॥ कालतः शाश्वतो वर्णादिभिः शून्यश्च भावतः। उपयोगगुणश्चासौ, गुणतः परिकीर्तितः॥२७॥ निरन्तरं बध्यमानः, स च कर्मकदम्बकैः । विसंस्थुलो भवाम्भोधौ, बहुधा चेष्टतेऽङ्गभाक ॥२८॥ पुद्गलैर्निचिते लोकेऽञ्जनपूर्णसमुद्गवत् । मिथ्यात्वप्रमुखैभूरिहेतुभिः कर्मपुद्गलान् ॥ २९॥ करोति जीवः संबद्धान्, खेन क्षीरेण नीरवत् । लोहेन वहिवद्वा यत्, तत्कर्मत्युच्यते जिनैः ॥ ३०॥ तच्च कर्म पौगलिकं, शुभाशुभरसाञ्चितम् । नत्वन्यतीर्थिकाभीष्टादृष्टादिवढमूर्त्तकम् ॥ ३१॥ व्योमादिवदमूर्त्तवे त्वस्य | विश्वाङ्गिसाक्षिकौ । नैतस्कृतानुग्रहोपघातौ संभवतः खलु ॥ ३२॥ हेतवः कर्मबन्धे च, चत्वारो मूलभेदतः। SO9289292e970700303083 Jain Educ a tional For Private Personal Use Only raww.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288