Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे १०भवसंवे.
॥१२०॥
सप्तपञ्चाशदेते च, स्युस्तदुत्तरभेदतः॥ ३३ ॥ मिथ्यात्वाविरतिकषाययोगसंज्ञाश्च मूलभेदाः स्युः । तत्र चा बन्धहेतपञ्चविधं स्यान्मिथ्यात्वं तच्च कथितं प्राक् ॥३४॥ (गीतिः) असंयतात्मनां स्याद्, द्वादशधाऽविरतिः खलु । षटकायारम्भपञ्चाक्षचित्तासंवरलक्षणा ॥ ३५॥ कषाया नोकषायाश्च, प्राक् षोडश नवोदिताः। योगास्तथा पश्चदश,सप्तपञ्चाशदित्यमी॥३६॥ कर्मबन्धः प्रकृत्यात्मा, स्थितिरूपो रसात्मकः । प्रदेशबन्ध इत्येवं, चतुर्भेदः प्रकीर्तितः ॥३७॥ प्रकृतिस्तु खभावः स्यादू, ज्ञानावृत्यादिकर्मणाम् । यथा ज्ञानाच्छादनादिः,स्थितिः कालविनिश्चयः |॥ ३८ ॥ बद्धं विवक्षितं कर्म, कर्मत्वेन हि तिष्ठति । यावत्कालं स्थितिः सा स्यात्, त्यजेत्तत्तां ततः परम् ॥ ३९॥ रसो मधुरकट्वादिः, सदसत्कर्मणां मतः। भवेत्प्रदेशबन्धस्तु, दलिकोपचयात्मकः ॥४०॥ यथा हि मोदकः कश्चित्, प्रकृत्या वातहृद्भवेत् । शुण्ठ्यादिजन्मा कश्चित्तु, पित्तनुज्जीरकादिजः ॥४१॥ कश्चित्पक्षस्थितिः कश्चिन्माप्तप्रभृतिकस्थितिः। स्यात्कश्चिन्मधुरः कश्चित्तिक्तःकश्चित्कटुस्तथा ॥४२॥ कश्चित्सेरदलः कश्चिद्, व्यादिसेरदलात्मकः।कार्यवं भावना विज्ञः,प्रकृत्यादिषु कर्मणाम् ॥४३॥ मूलप्रकृतिभेदेन, तच कर्माष्टधा मतम् । स्याद | ज्ञानावरणीयाख्यं, दर्शनावरणीयकम् ॥४४॥ वेदनीयं मोहनीयमायुर्गोत्रं च नाम च । अन्तरायं चेत्यथैषामुत्तर-SI प्रकृतीब्रुवे ॥४५॥ ज्ञानानि पञ्चोक्तानि प्राक, यच्च तेषां खभावतः। आच्छादकं पट इव, दृशां तत्पश्चधा मतम् ॥१२०॥ ॥ ४६॥ मतिश्रुतावधिज्ञानावरणानि पृथक् पृथक् । मनःपर्यायावरणं, केवलावरणं तथा ॥४७॥ आवृतिश्चक्षु-10 रादीनां, दर्शनानां चतुर्विधा । निद्राः पञ्चेति नवधा, दर्शनावरणं मतम् ॥४८॥ सुखप्रबोधा निद्रा स्थात्,| २८
२५
Jain Educator
For Private & Personal Use Only
O
riainelibrary.org

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288