Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 259
________________ Jain Educato मन्यपर्यायं लभते नवमे भवे ॥ ५५ ॥ उत्कृष्टायुर्भूमिकायोऽनुत्कृष्टायुष्कवारिषु । उत्पद्यमानोऽप्युत्कर्षाद्भवानहैव पूरयेत् ॥ ५६ ॥ एवं भूकायिकोऽनुत्कृष्टायुरुत्कृष्टजीविषु । उद्भवन्नम्बुषूत्कर्षात् स्यादष्टभवपूरकः ॥ ५७ ॥ अष्कायादीनामपीत्थं, विकलानां च भाव्यताम् । भवाष्टकात्मा संवेधो, ज्येष्ठायुर्भङ्गकन्त्रये ॥ ५८ ॥ अनुत्कृटायुषां त्वेषां स्यादनुत्कृष्टजीविषु । संवेधः प्रागुक्त एवासंख्य संख्यभवात्मकः ॥ ५९ ॥ पृथ्व्यादीनामसंख्यभवात्मको विकलानां संख्यभवात्मक इति ॥ क्ष्मादयो विकलाक्षाच, जघन्यतो भवद्वयम् । कुर्युर्ज्येष्ठकनिष्ठायूरूपे भङ्गचतुष्टये ॥ ६० ॥ युग्मवर्जाश्च मनुजास्तिर्यश्चः संज्ञयसंज्ञिनः । प्रत्येकं जायमानाः स्युर्मिथोऽष्टभवपूरकाः ॥ ६१ ॥ जघन्योत्कृष्टायुरुत्थचतुर्भङ्गयामपि स्फुटम् । भवान् कृत्वाऽष्ट नवमे, तेऽन्यं पर्यायमाप्नुयुः ॥ ६२ ॥ तथैत एव पृथ्व्यादिपञ्चके विकलत्रये । जायमानाश्चतुर्भङ्गयां कुर्युः प्रत्येकमष्ट तान् ॥ ६३ ॥ तथा क्ष्माद्याः सविकलास्तिर्यक्षु संज्ञयसंज्ञिषु । नृष्वयुग्मिषु चोत्पद्यमाना भङ्गचतुष्टये ॥ ६४ ॥ पूरयन्ति भवानष्टौ, स च पृथ्व्यादिकोऽसुमान् । नरतिर्यग्भवात्तस्मान्न पृथ्व्यादित्वमाप्नुयात् ॥ ६५ ॥ जघन्यादुत्कर्षतोऽपि, मनुष्याः पवनाग्निषु । उत्पद्यमाना द्वावेव, पूरयन्ति भवौ खलु ॥ ६६ ॥ यतो हि पवनाग्निभ्य, उद्धृतानां शरीरिणाम् । अनन्तरभवे नैव, नरेषूत्पत्तिसंभवः ॥ ६७ ॥ यथोक्तानामथ भवसंवेधानां यथागमम् । कालमानं विनिश्चेतुमान्नायोऽयं वितन्यते ॥ ६८ ॥ जघन्यादन्तर्मुहूर्त्तमुत्कर्षात्पूर्व कोटिकाम् । स्थितिं विभ्रद्याति तिर्यङ्, नरकेष्वखिलेष्वपि ॥ ६९ ॥ तावदायुर्युतेष्वेति तेभ्यो मृत्वाऽपि नारकः । सहस्रारान्तदेवेष्वप्यसौ तादृकस्थि ational For Private & Personal Use Only १० १४ wjainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288