Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 253
________________ लो. प्र. २० हस्रौ च कियद्वर्षाधिको गुरुः ॥ ७ ॥ देहास्त्रयस्तैजसं च, कार्मणं वैक्रियं तथा । खाभाविककृतिमयोहुण्डं संस्थानमङ्गयोः ॥ ८ ॥ इति देहाः संस्थानं च । शतानि पञ्च धनुषां ज्येष्ठा खाभाविकी तनुः । लध्व्यङ्गुलासंख्य भागमानाऽऽरम्भक्षणे मता ॥९॥ खखखाभाविकतनोर्द्विगुणोत्तर वैक्रिया । गुर्वी लध्यङ्गुलसंख्य भागमाना भवेदसौ ॥ १० ॥ इत्यङ्गमानं । स्युश्चत्वारः समुद्घाता, आद्या एषां गतिः पुनः । पर्याप्तगर्भजनरतिरश्वोः | संख्यजीविनः ॥ ११ ॥ इति गतिः । नरपश्चाक्षतिर्यश्चः, पर्याप्ताः संख्यजीविनः । नारकेषु यान्ति संख्या, सामयिक्येषु देववत् ॥ १२ ॥ एषूत्पत्तिच्यवनयोर्मुहर्त्ता द्वादशान्तरम् । उत्कर्षतो जघन्याच्च, प्रज्ञप्तं समया त्मकम् ॥ १३॥ इत्यागतिः ॥ सामान्यतो नैरयिका, लभन्तेऽनन्तरे भवे । सम्यक्त्वं देशविरतिं, चारित्रं मुक्तिमध्यमी ॥ १४ ॥ विशेषतस्तु क्षेत्रलोके वक्ष्यते ॥ इत्यन. नराप्तिः ॥ उद्धृत्यौघान्नारकेभ्यो, लब्ध्वा नरभवादिकम् । यद्येकसमये यान्ति, शिवं तर्हि दश ध्रुवम् ॥ १५ ॥ प्रत्येकमाद्यनरकश्योद्धृता अभी पुन: । सिद्धिं यान्ति दश दश, तुर्योद्धृतास्तु पश्ञ्च ते ॥ १६ ॥ इति समये सिद्धिः ॥ लेश्यास्तिस्रो भवन्त्याद्याः, षडाहारदिशोऽपि चिन संहननसद्भावः, कषाया निखिला अपि ॥ १७ ॥ संज्ञाः सर्वाश्चेन्द्रियाणि सर्वाण्येषां च संज्ञिता । दीर्घकालिक्यादिमत्त्वाद्व्यक्तसंज्ञतयाऽपि च ॥ १८ ॥ एषां वेदः क्लीव एव, दृष्टिर्ज्ञानं च दर्शनम् । उपयोगा इति द्वारचतुष्कं सुरवन्मतम् ॥ १९ ॥ ओजोलोमाभिधावेषामाहारावशुभौ भृशम् । गुणस्थानानि योगाश्च, भवन्त्यमृतभोजिवत् ॥ २० ॥ लोमाहारो द्विधाऽऽभोगादना भोगाच्च तत्र च । स्यादादिमोऽन्तर्मुहर्त्ताद्, द्वितीयश्च Jain Educat amational For Private & Personal Use Only 9 १० १४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288