Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 252
________________ लोकप्रकाशे ९ ना. सर्गः ॥११४॥ Jain Education | समणाउसो ! इति ॥ इति दिगपेक्षयाल्पबहुता ॥ जघन्यतोऽन्तर्मुहर्त्त, कालोऽनन्तोऽन्तरं गुरु । ज्येष्टकायस्थितिरूपः, स च कालो वनस्पतेः ॥ ५३॥ इत्यन्तरं ॥ इति यदिह मयोक्तं निर्जराणां स्वरूपं, तदुरुसमयवाचां वर्णिकामात्रमेव । तदुपहितविशेषान् को ह्यशेषान् विवेक्तुं प्रभुरिव नृपकोष्ठागारजाग्रत्कणौघान् ॥५४॥ (मालिनी) विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्री वाचकेन्द्रान्तिषद्राजश्रीतनयोऽनिष्टविनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सर्गे निर्गलितार्थसार्थसुभगः सौख्येन पूर्णोऽष्टमः ॥ ५५ ॥ इति | श्रीलोकप्रकाशे देवाधिकाररूपोऽष्टमः सर्गः समाप्तः ॥ ग्रन्थानं १४४ अक्षराणि १० ॥ नवमः सर्गः प्रारभ्यते ॥ अथ नारकाः - रत्नशर्करावालुकापङ्कधूमतमःप्रभाः । महातमः प्रभैतज्जाः, सप्तधा नारका मताः ॥ १ ॥ पर्याप्ता परभेदेन, चतुर्द्दश भवन्ति ते । स्थानोत्पातसमुद्घातैर्लोका संख्यांशवर्त्तिनः ॥ २ ॥ स्वस्थानतस्त्वधोलोकस्यैकदेशे भवन्त्यमी । विशेषस्थानयोगस्तु, क्षेत्रलोके प्रवक्ष्यते ॥ ३ ॥ इति भेदाः स्थानानि च ॥ पर्याप्तयः षडप्येषां चतस्रो योनिलक्षकाः । लक्षाणि कुलकोटीनामुक्तानि पञ्चविंशतिः ॥ ४ ॥ इति द्वारत्रयं ॥ स्युः शीतयोनयः केचित् केचित्तथोष्णयोनयः । जिनैरुक्ता नैरयिकाः, संवृताचित्तयोनयः ॥ ५ ॥ इति योनिसंवृत| त्वादि ॥ दश वर्षसहस्राणि, जघन्यैषां भवस्थितिः । उत्कृष्टा तु त्रयस्त्रिंशत्सागरोपमसंमिता ॥ ६ ॥ इति भवस्थितिः ॥ कायस्थितिस्त्वेषां भवस्थितिरेव ॥ कार्यस्थितिस्त्रसत्वे स्याज्जघन्याऽन्तर्मुहूर्त्तिकी । द्वौ सागरस JAIL ional For Private & Personal Use Only नारक भेदादि २५ ॥ ११४ ॥ २८ ainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288