________________
लोकप्रकाशे ९ ना. सर्गः
॥११४॥
Jain Education
| समणाउसो ! इति ॥ इति दिगपेक्षयाल्पबहुता ॥ जघन्यतोऽन्तर्मुहर्त्त, कालोऽनन्तोऽन्तरं गुरु । ज्येष्टकायस्थितिरूपः, स च कालो वनस्पतेः ॥ ५३॥ इत्यन्तरं ॥ इति यदिह मयोक्तं निर्जराणां स्वरूपं, तदुरुसमयवाचां वर्णिकामात्रमेव । तदुपहितविशेषान् को ह्यशेषान् विवेक्तुं प्रभुरिव नृपकोष्ठागारजाग्रत्कणौघान् ॥५४॥ (मालिनी) विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्री वाचकेन्द्रान्तिषद्राजश्रीतनयोऽनिष्टविनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सर्गे निर्गलितार्थसार्थसुभगः सौख्येन पूर्णोऽष्टमः ॥ ५५ ॥ इति | श्रीलोकप्रकाशे देवाधिकाररूपोऽष्टमः सर्गः समाप्तः ॥ ग्रन्थानं १४४ अक्षराणि १० ॥ नवमः सर्गः प्रारभ्यते ॥
अथ नारकाः - रत्नशर्करावालुकापङ्कधूमतमःप्रभाः । महातमः प्रभैतज्जाः, सप्तधा नारका मताः ॥ १ ॥ पर्याप्ता परभेदेन, चतुर्द्दश भवन्ति ते । स्थानोत्पातसमुद्घातैर्लोका संख्यांशवर्त्तिनः ॥ २ ॥ स्वस्थानतस्त्वधोलोकस्यैकदेशे भवन्त्यमी । विशेषस्थानयोगस्तु, क्षेत्रलोके प्रवक्ष्यते ॥ ३ ॥ इति भेदाः स्थानानि च ॥ पर्याप्तयः षडप्येषां चतस्रो योनिलक्षकाः । लक्षाणि कुलकोटीनामुक्तानि पञ्चविंशतिः ॥ ४ ॥ इति द्वारत्रयं ॥ स्युः शीतयोनयः केचित् केचित्तथोष्णयोनयः । जिनैरुक्ता नैरयिकाः, संवृताचित्तयोनयः ॥ ५ ॥ इति योनिसंवृत| त्वादि ॥ दश वर्षसहस्राणि, जघन्यैषां भवस्थितिः । उत्कृष्टा तु त्रयस्त्रिंशत्सागरोपमसंमिता ॥ ६ ॥ इति भवस्थितिः ॥ कायस्थितिस्त्वेषां भवस्थितिरेव ॥ कार्यस्थितिस्त्रसत्वे स्याज्जघन्याऽन्तर्मुहूर्त्तिकी । द्वौ सागरस
JAIL
ional
For Private & Personal Use Only
नारक
भेदादि
२५
॥ ११४ ॥
२८
ainelibrary.org