________________
Jain Educatio
त्येभ्य, उत्तराहा इमेऽधिकाः ॥ ४३ ॥ स्युः सौधर्मप्रभृतिषु, ताविषेषु चतुर्ष्वपि । पूर्वस्यां पश्चिमायां च स्तोका एव सुधाभुजः ॥ ४४ ॥ ततश्चासंख्येयगुणा, उत्तरस्यां ततोऽधिकाः । दक्षिणस्याममी प्रोक्ताः श्रूयतां तत्र भावना ॥ ४५ ॥ तुल्या दिक्षु चतसृषु, विमानाः पङ्क्तिवर्त्तिनः । असंख्य योजनतताः, पुष्पावकीर्णकाः पुनः ॥४६॥ याम्योदीच्योरेव भूना, स्युः पूर्वापरयोस्तु न । उदक् ततोऽसंख्यगुणाः, प्राचीप्रतीच्यपेक्षया ॥ ४७ ॥ भूम्ना कृष्णपाक्षिकाणां दक्षिणस्यां समुद्भवान् । दक्षिणस्यां समधिका, उत्तरापेक्षया ततः ॥ ४८ ॥ तथाहुः प्रज्ञापनायां - "दिसाणुवाएणं सवत्थोवा देवा सोहम्मे कप्पे पुरच्छिमपच्चच्छिमेणं, उत्तरेणं असंखेज्जगुणा, दाहिणेणं विसेस हिया " अत्र यद्यपि 'विविहा पुष्पवकिन्ना तयंतरे मुत्तु पुवदिसिं' इति वचनात् प्राच्यां पुष्पावकीर्णकाभावात्प्रतीच्यां च तन्निषेधाभावात्प्राच्यपेक्षया प्रतीच्यां देवा अधिका वक्तव्याः स्युस्तथाप्यत्र सूत्रे पूर्व - | पश्चिमावल्योरुभयतः सर्वापि दक्षिणोत्तरतयैव दिग्विवक्षितेति संभाव्यत इति वृद्धाः, यथा दक्षिणोत्तरार्धलोकाधिपती सौधर्मेशानेन्द्रौ इत्यत पूर्वपश्चिमे अपि दक्षिणोत्तरतयैव विवक्षिते इति ॥ पूर्वोत्तरपश्चिमासु, ब्रह्मलोकेऽल्पकाः सुराः । ततश्चासंख्येयगुणा, दक्षिणस्यां दिशि स्मृताः ॥ ४९ ॥ याम्यां हि बहवः प्रायस्तिर्यञ्चः कृष्णपाक्षिकाः । उत्पद्यन्तेऽन्यासु शुक्लपाक्षिकास्ते किलाल्पकाः ॥ ५० ॥ एवं च लान्तके शुक्रे, सहखारेऽपि नाकिनः । भूयांसो दक्षिणस्यां स्युस्तिसृष्वन्यासु चाल्पकाः ॥ ५१ ॥ आनतादिषु कल्पेषु ततश्चानुउत्तरावधि । प्रायश्चतुर्द्दिशमपि, समाना एवं नाकिनः ॥ ५२ ॥ तथाहुः प्रज्ञापनायां - "तेण परं बहुसमोववण्णगा
rational
For Private & Personal Use Only
१०
१४
w.jainelibrary.org