________________
लोकप्रकाशे ८ देवसर्गः
॥ ११३ ॥
बत्तीसगुणाउ होंति देवीओ। संखेज्जा सोहम्मे तओ असंखा भवणवासी ॥ ॥ इति । असंख्यघ्नाश्च सौधर्मदेवेभ्यो भवनाधिपाः । भवन्ति भवनेशेभ्योऽसंख्यन्ना व्यन्तराः सुराः ॥ ३० ॥ ज्योतिष्काणां देवदेवीवृन्दः संख्यगुणस्ततः । खखदेवेभ्यश्च देव्यः सर्वाः संख्यगुणाः स्मृताः ॥ ३१॥ इति लच्यल्पबहुता ॥ पूर्वस्यां च प्रतीच्यां च, स्तोका भवनवासिनः । उत्तरस्यां दक्षिणस्यामसंख्येयगुणाः क्रमात् ॥ ३२ ॥ प्राक्प्रतीच्योर्हि भवनात्पत्वातस्तोका अमी किल । दक्षिणोत्तरयोस्तेषां क्रमाधिक्यादिमेऽधिकाः ॥ ३३ ॥ पूर्वस्यां व्यन्तराः स्तोका, विशेषेणाधिकाधिकाः । अपरस्यामुत्तरस्यां दक्षिणस्यां यथाक्रमम् ॥ ३४ ॥ व्यन्तराः शुषिरे भूम्ना, प्रचरन्ति ततोऽधिकाः । साधोग्रामायां प्रतीच्याममी स्युः प्राच्यपेक्षया ॥ ३५ ॥ उदीच्यां दक्षिणस्यां च युक्तमेवाधिकाधिकाः । स्वस्थाननगरावासबाहुल्यतो यथाक्रमम् ॥ ३६ ॥ पूर्वस्यां पश्चिमायां च स्तोका ज्योतिष्कनाकिनः । दक्षिणस्यामुदीच्यां च स्युः क्रमेणाधिकाधिकाः ॥ ३७ ॥ प्राक्प्रतीच्योश्चन्द्र सूर्य द्वीपेषूद्यानदेशवत् । क्रीडास्पदेषु ज्योतिष्काः, स्वल्पाः प्रायेण सत्तया ॥ ३८ ॥ तेभ्योऽधिका दक्षिणस्यां, विमानानां बहुत्वतः । तथा कृष्णपाक्षिकाणां बाहुल्येनोपपाततः ॥ ३९ ॥ उदीच्यां मानससरस्येते क्रीडापरायणाः । आसते नित्यमेवं स्युर्दक्षिणापेक्षयाधिकाः ॥ १४० ॥ किंच - मानसाख्ये सरस्यस्मिन्, मत्स्याद्या येऽम्बुचारिणः । ते समीपस्थितज्योतिर्विमानादिनिरीक्षणात् ॥ ४१ ॥ उत्पन्नजातिस्मरणाः, किंञ्चिदाचर्य च व्रतम् । विहितानशनाः कृत्वा, निदानं सुख लिप्सया ॥ ४२ ॥ मृत्वा ज्योतिर्विमानेषूत्पद्यन्तेऽन्तिकवर्त्तिषु । ततः स्युर्दाक्षिणा
Jain Education International
For Private & Personal Use Only
देवानां
मानम्
२०
२५
॥ ११३॥
२८
www.jainelibrary.org