SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 202002020129 तकल्पयो। विमानसंख्या तुल्यैव, तथापि कृष्णपाक्षिकाः॥१८॥ उत्पद्यन्ते स्वभावेन, दक्षिणस्यां हि भूरयः। शुक्लपाक्षिकजीवेभ्यो, बहवश्च भवन्ति ते ॥१९॥ ततोऽच्युतापेक्षया स्युनिर्जरा आरणेऽधिकाः। समश्रेणिस्थितावेवमन्येष्वपि विभाव्यताम् ॥ २०॥ शुक्लपाक्षिककृष्णपाक्षिकलक्षणं चैवं-बहुपापोदया: क्रूरकर्माणः कृष्णपाक्षिकाः । स्युर्दीर्घतरसंसारा, भूयांसोऽन्यव्यपेक्षया ॥२१॥ तथाखभावात्ते भव्या, अपि प्रायः सुरादिषु । उत्पद्यन्ते दक्षिणस्यां, प्राचुर्येणान्यदिक्षु न ॥ २२॥ तथा:-"पायमिह कूरकम्मा भवसिद्धीयावि दाहिजिल्लेसु । नेरइयतिरियमणुआसुराइठाणेसु गच्छति ॥२३॥ जेसिमवड्डो पुग्गलपरियट्टो सेसओ उ संसारो। ते सुक्कपक्खिया खलु, अहिए पुण कण्हपक्खीओ ॥ २४ ॥” इति प्रज्ञापनावृत्तौ ॥ आनतेभ्योऽसंख्यगुणाः, सहस्रारसुराः स्मृताः। महाशुक्रे लान्तके च, ब्रह्ममाहेन्द्रयोः क्रमात् ॥ २५॥ सनत्कुमार ईशानेऽप्यसंख्यन्ना यथोत्तरम् । ऐशानेभ्यश्च सौधर्मदेवाः संख्यगुणाधिकाः ॥ २६ ॥ ननु-कृष्णपाक्षिकबाहुल्याद्यथा माहेन्द्रनाकिनः। असंख्येयगुणाः प्रोक्ताः, सनत्कुमारनाकिनः॥ २७॥ विमानानां कृष्णपाक्षिकाणां चाधिक्यतस्तथा। ते सौधर्मेऽप्यसंख्यनाः, कथं नेशाननाकिनः ? ॥२८॥ अत्रोच्यते हि वचनप्रामाण्यादुच्यते तथा । विचारगोचरो नास्मादृशामाप्सोदितं वचः॥ २९ ॥ तथोक्तं प्रज्ञापनावृत्ती-"नन्वियं युक्तिर्माहेन्द्रसनत्कुमारयोरपि उक्ता, परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असंख्येयगुणा उक्ताः, इह तु सौधर्मे कल्पे संख्येयगुणा उक्तास्तदेतत्कथं ?, उच्यते, वचनप्रामाण्यात् , न चात्र पाठनमो, यतोऽन्यत्राप्युक्तं-"ईसाणे सवत्थवि | 0 0202012028/20 Join Educati onal For Private Personal Use Only iainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy