Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 240
________________ लोक. द्रव्य. ७ सर्गः ॥ १०८ ॥ Jain Education छत्तीसा । एवइया अविगला मणुया ॥ ५ ॥” उत्कर्षेण समुदिता, गर्भसंमूर्च्छजा नराः । असङ्ख्येयकालचक्रसमयैः प्रमिता मताः ॥ ६ ॥ मनुष्या छुत्कृष्टपदेऽपि श्रेण्यसङ्ख्येय भागगत प्रदेशराशिप्रमाणा लभ्यन्ते इति तु प्रज्ञापनावृत्तौ ॥ इति मानं ॥ गर्भजाः पुरुषाः स्तोकास्ततः सङ्ख्यगुणाः स्त्रियः । ततोऽसङ्ख्यगुणाः षण्ढनराः संमूच्छिमैर्युताः ॥ १३ ॥ इति लछ्यल्पबहुता ॥ दक्षिणोत्तरयोः स्तोकाः स्युर्मनुष्या मिथः समाः । प्राच्यां ततः सङ्ख्यगुणाः, प्रतीच्यां च ततोऽधिकाः ॥ १४ ॥ भरतैरावतादीनि क्षेत्राण्यल्पान्यपागुदम् । ततः सङ्ख्यगुणानि स्युः, पूर्वपश्चिमयोर्दिशोः ॥ १५ ॥ किन्त्वधोलौकिक ग्रामेष्वनल्पाः स्युर्नरा यतः । ततः प्रतीच्याम धिका, मनुष्याः प्राच्यपेक्षया ॥ १६ ॥ इति दिगपेक्षयाऽल्पबहुता ॥ अन्तर्मुहूर्त्तमल्पिष्टं, मनुष्याणां महान्तरम् । कालोऽनन्तः स चोत्कृष्टा, कायस्थितिर्वनस्पतेः ॥ १७ ॥ चक्रित्वे चान्तरं प्रोक्तं, साधिकाब्धिमितं लघु । ज्येष्ठं च पुद्गलपरावत्तार्धं पञ्चमाङ्गके ॥ १८ ॥ नृणामिति व्यतिकरा विवृता मयैवं, सम्यग् विविच्य समयात्खगुरुमसत्या । पूर्णापणादिव कणाः किल मौक्तिकानां, दीपत्विषाऽऽसवणिजा मणिजातिवेन्ना ॥ १९॥ (वसन्ततिलका) विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्रीचाच केन्द्रा तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गों निर्गलितार्थसार्थसुभगः पूर्णः सुखं सप्तमः ॥ २० ॥ ॥ इति श्रीलोकप्रकाशे मनुष्याधिकाररूपः सप्तमः सर्गः समाप्तः ॥ ग्रन्थाग्रम् १५७ ॥ tional For Private & Personal Use Only मनुष्याणां संख्यादि १५ २० ॥ १०८ ॥ २५ २६ jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288