SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Jain Education च्छपाः । ज्ञेया संज्ञाभिरेताभिग्रहाः पञ्चविधाः पुनः ॥ ६७ ॥ दिली वेढला सुद्धला पुलगा सीसागारा इति । द्विविधा मकराः शोण्डा, मट्टा इति विभेदतः । एकाकाराः शिशुमाराः, सर्वेऽमी जलचारिणः ॥ ६८ ॥ इति जलचराः ॥ चतुष्पदाः परिसर्पा, इति स्थलचरा द्विधा । चतुष्पदाश्चतुर्भेदास्तत्र प्रोक्ता विशारदैः ॥ ६९ ॥ केचिदेकखुराः केचिद्, द्विखुरा अपरे पुनः । गण्डीपदाच सनखपदा अन्ये प्रकीर्त्तिताः ॥ ७० ॥ अभिन्नाः स्युः खुरा येषां ते स्युरेकखुराभिधाः । गर्दभाश्वादयस्ते तु, रोमन्थं रचयन्ति न ॥ ७१ ॥ भिन्ना येषां खुरास्ते स्युखुरा बहुजातयः । महिषा गवया उष्ट्रा, वराहच्छगलैडकाः ॥ ७२ ॥ रुरवः शरभाश्चापि चमरा रोहिषा मृगाः । गोकर्णाद्या अमी सर्वे, रोमन्थं रचयन्ति वै ॥ ७३ ॥ स्यात्पद्मकर्णिका गण्डी, तद्वद्येषां पदाश्च ते । हस्तिगण्डकखङ्गाद्या, गण्डीपदाः प्रकीर्त्तिताः ॥ ७४ ॥ इत्युत्तराध्ययनवृत्तौ ॥ प्रज्ञापनावृत्तौ तु - " गण्डी सुवर्णकाराधिकरणस्थान" मिति ॥ येषां पदा नखेदधैः, संयुताः स्युः शुनामिव । तीर्थङ्करैस्ते सनखपदा इति निरूपिताः ॥ ७५ ॥ सिंहा व्याघ्रा द्वीपिनश्च, तरक्षा ऋक्षका अपि । शृगालाः शशकाश्चित्राः, श्वानश्चान्ये तथाविधाः ॥ ७६ ॥ इति चतुष्पदाः ॥ भुजोरः परिसर्पत्वात्, परिसर्पा अपि द्विधा । तत्रोरः परिसर्पाश्च, चतुर्धा दर्शिता जिनैः ॥ ७७ ॥ अहयोऽजगरा आसालिका महोरगा इति । अहयो द्विविधा दवकरा मुकुलिनस्तथा ॥ ७८ ॥ दर्वीकराः फणभृतो, या देहावयवाकृतिः । फणाभावोचिता सा स्थान, मुकुलं तद्युताः परे ॥ ७९ ॥ दर्वी करा बहुविधा, दृष्टा दृष्टजगत्रयैः । आशीविषा दृष्टिविषा, उग्र भोगविषा अपि ॥८०॥ लालाविषा tional For Private & Personal Use Only १४ ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy