________________
लोक. द्रव्य. ६ सर्गः
॥ ९८ ॥
Jain Educat
पञ्चेन्द्रिय
"पजत्तापजत्ता बितिच असन्निणो अवहरति । अङ्गुलसङ्खासङ्घप्पएसभइयं पुढो पयरं ॥ ५४॥” इति मानं ॥ सर्वस्तोकाश्चतुरक्षाः, पर्याप्ताः परिकीर्त्तिताः । पर्याप्तद्वीन्द्रियास्तेभ्योऽधिकास्तेभ्यस्त्रिखास्तथा ॥ ५५ ॥ अस-भेदादि येयगुणास्तेभ्योऽपर्याप्तचतुरिन्द्रियाः । त्रिद्वीन्द्रिया अपर्याप्तास्ततोऽधिकाधिकाः क्रमात् ॥५६॥ इत्यल्पबहुत्वं । | इमे प्रतीच्यामयल्पाः, प्राच्यां विशेषतोऽधिकाः । दक्षिणस्यामुत्तरस्यामेभ्योऽधिकाधिकाः क्रमात् ॥ ५७ ॥ अल्पतां बहुतां चानुसरन्त्येतेऽम्बुकायिनाम् । प्रायो जलाशयेष्वेषां भूम्नोत्पत्तिः प्रतीयते ॥ ५८ ॥ द्व्यक्षाः पूतरशङ्खाद्याः, स्युः प्रायो बहवो जले । शेवालादौ च कुन्थ्वाया, भृङ्गाद्याश्चाम्बुजादिषु ॥ ५९ ॥ इति दिग पेक्षयाऽल्पबहुत्वं ॥ अल्पमन्तर्मुहूर्त्तं स्यात्, कालोऽनन्तोऽन्तरं महत् । वनस्पत्यादिषु स्थित्वा, पुनर्विकलताजुषाम् ॥ ६० ॥ इत्यन्तरं ॥
1
तिर्यञ्चो मनुजा देवा, नारकाचेति तात्त्विकैः । स्मृताः पञ्चेन्द्रिया जीवाश्चतुर्द्धा गणधारिभिः ॥ ६१ ॥ त्रिधा पञ्चाक्षतिर्यञ्चो, जलस्थलखचारिणः । अनेकधा भवन्येते, प्रतिभेदविवक्षया ॥ ६२ ॥ दृष्टा जलचरास्तत्र, पञ्चधा तीर्थपार्थिवैः । मत्स्याश्च कच्छपा ग्राहा, मकरा शिशुमारकाः ॥ ६३ ॥ तत्रानेकविधा मत्स्याः, श्लक्ष्णास्तिमितिमिङ्गिलाः । नास्तण्डुलमत्स्याश्च, रोहिताः कणिकाभिधाः ॥ ६४ ॥ पीठपाठीनशकुलाः, सहस्रं दंष्ट्रसंज्ञकाः । नलमीना उलूपी च, प्रोष्ठी च मद्गुरा अपि ॥ ६५ ॥ चटाचटकराचापि, पताकातिपताकिकाः । सर्वे ते मत्स्यजातीया, ये चान्येऽपि तथाविधाः ॥ ६६ ॥ कच्छपा द्विविधा अस्थिकच्छपा मांसक
ational
For Private & Personal Use Only
२०
२५
ܕ܀
॥ ९८ ॥
२८
w.jainelibrary.org