SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ जिनः नः ॥ ४५ ॥ निश्चयातु द्विस पर्याप्तभावान्तमुहूर्तमुत्त द्वितीयमपि जाणवार एवमा पृथक् ॥ १२ ॥ द्वति मजिता ॥ केवलं क्लीववेदाश्च । इति वेदः॥ मिथ्यादृष्टय एव ते । सम्यग्दृशो ह्यल्पकालं, विद्युज्योतिनिदर्शनात् ॥४०॥ सास्वादनाख्यसम्यक्त्वे, किश्चित्शेषे मृतिं गताः। विकलाक्षेषु जायन्ते, ये केचित्तदपेक्षया ॥४१॥ अपर्याप्तदशायां स्युः, सम्यग्दृशोऽपि केचन । पर्याप्तत्वे तु सर्वेऽपि, मिथ्यादृष्टय एव ते ॥४२॥ यग्मं ॥ इति दृष्टिः॥ मतिश्रुताभिधं ज्ञानद्वयं सम्यग्दृशां भवेत् । मत्यज्ञानश्रुताज्ञाने, तेषां मिथ्यात्विना पुनः॥४३॥ इति ज्ञानं ॥ अचक्षुदर्शनोपेता, द्विश्यक्षाश्चतुरिन्द्रियाः । सचक्षुर्दर्शनाचक्षुद्दर्शनाः कथिता जिनः॥४४॥ इति दर्शनं ॥ स्युः साकारोपयोगास्ते, ज्ञानाज्ञानव्यपेक्षया । निराकारोपयोगास्ते, दर्शनापेक्षया पुनः॥४५॥ इत्युपयोगाः॥ द्विवक्रस्त्रिक्षणान्तश्च, संभवत्येषु विग्रहः । ततस्तत्रैकसमयं, व्यवहाराद-|| नाहृतिः ॥४६॥ निश्चयात्तु द्विसमया, स्यादनाहारिता किल । विग्रहे विकलाक्षाणामाहारकत्वमन्यदा ॥४७॥ एते प्रागोजआहारास्ततः पर्याप्तभावतः । लोमाहाराः कावलिकाहारा अपि भवन्त्यमी ॥४८॥ सचित्ताचित्तमिश्राख्य, एषामाहार इष्यते । अन्तर्मुहूर्तमुत्कृष्टमाहारस्यान्तरं मतम् ॥ ४९॥ इत्याहारः॥ पर्याप्तानां गुणस्थानमेतेषामुक्तमादिमम् । अपर्याप्सानां तदाद्यं, द्वितीयमपि जातुचित् ॥५०॥ इति गुणाः॥ औदारिक: काययोगस्तन्मिश्रः कार्मणस्तथा । वागसत्यामृषा चेति, योगाश्चत्वार एवमी ॥५१॥ इति योगाः॥ एकस्मिन्प्रतरे सूच्योऽङ्गुलसङ्ख्यांशका यति । तावन्तो द्वित्रिचतुरिन्द्रियाः पर्याप्तकाः पृथक् ॥५२॥ 18 एकस्मिन्प्रतरे सूच्योऽङ्गुलासङ्ख्यांशका यति । अपर्याप्सा द्वित्रिचतुरक्षास्तावन्त ईरिताः॥५३॥ उक्तं च SO900AGAOROSSO900 ययोगस्तमिश्रमादिमम् । अपर्यासान्तमुहर्तमुत्कृष्टमाहालकाहारा अपिाहारकत्वमन्यदा Jain Educa t ional For Private & Personel Use Only SOnew.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy