SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. ६ सर्गः ॥९७॥ ११॥ उत्पद्यन्ते विपद्यन्त चतच्यवनयोर्विरहो द्वीन्द्रियादिषु । अन्य च । एषां गमागमौ तिकोस गुम्मी य जोअणं भमरो” इति । इत्यङ्गमानं । वेदनोत्थः कषायोत्थो, मारणान्तिक इत्यपि । विकले-II विकलेषु न्द्रियजीवानां, समुद्घाता अमी त्रयः ॥२७॥ इति समुद्घाताः॥ पृथ्व्याद्याः स्थावराः पञ्च, द्वीन्द्रिया-वासा द्वाराणि द्यास्त्रयः पुनः । सङ्ख्येयजीविनः पञ्चेन्द्रियतिर्यग्नरा अपि ॥२८॥ स्थानकेषु दशखेषु, गच्छन्ति विकलेन्द्रियाः। दशभ्य एवैतेभ्यश्चोत्पद्यन्ते विकलेन्द्रियाः॥२९॥ न देवनारकासयजीवितिर्यग्नरेषु च । एषां गमागमौ तस्माद, द्विगता व्यागता इति ॥ ३०॥ उपपातच्यवनयोविरहो द्वीन्द्रियादिषु । अन्तमुहर्तमुत्कृष्टो, जघन्यः समयावधिः॥३१॥ उत्पद्यन्ते विपद्यन्ते, चैकेन समयेन ते। एको द्वौ वा त्रयः सत्या, असङ्ख्या विकलेन्द्रियाः॥ ३२॥ इति गतागती ॥ लब्ध्वा नृत्वादिसामग्री, केचिदासादयन्त्यमी । यावद्दीक्षा भवे गम्ये, न तु मोक्षं स्वभावतः॥ ३३ ॥ इत्यनन्तराप्तिः ॥ एकस्मिन्समये सिद्धिर्विकलानां न संभवेत् । ग्रामो नास्ति कुतः। सीमा?, मोक्षो नास्तीति सा कुतः १ ॥ ३४ ॥ इत्येकसमयसिद्धिः ॥ कृष्णा नीला च कापोतीत्येषां लेश्यात्रयं ९ स्मृतम् । इति लेश्या ॥ त्रसनाड्यन्तरे सत्वादाहारः षड्दिगुद्भवः ॥ ३५॥ इत्याहारदिक । एषां संहननं चैक, सेवा परिकीर्तितम् । इति संहननं ॥ मानमायाक्रोधलोभाः, कषाया एषु वर्णिताः॥ ३६॥ आहारप्रमुखाः संज्ञाश्चतस्र एषु दर्शिताः। इति संज्ञाः॥ यक्षाणां स्पर्शनं जिह्वेत्याख्यातमिन्द्रियद्वयम् ॥ ३७॥ तत् यक्षचतुरक्षाणां, क्रमाद् घाणेक्षणाधिकम् । इतीन्द्रियं ॥ असत्त्वाद्व्यक्तसंज्ञानां, ते निर्दिष्टा असंज्ञिनः ॥ ३८॥ ॥९७॥ यद्वा-न दीर्घकालिकी नापि, दृष्टिवादोपदेशिकी। स्याद्धेतुवादिकी ह्येषां, न तया संज्ञिता पुनः ॥ ३९॥ Jan Education Intemanona For Private Personel Use Only
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy