________________
लो. प्र. १७
Jain Educatio
यस्तथा प्राणाः, षट् सप्ताष्टौ यथाक्रमम् ॥ १३ ॥ चत्वारः स्थावरोक्तास्ते, जिह्वावाग्बलवृद्धितः । षड् द्वीन्द्रि येष्वथैके केन्द्रियवृद्धिस्ततो द्वयोः ॥ १४॥ इति पर्याप्तयः प्राणाश्च ॥ लक्षद्वयं च योनीनामेषु प्रत्येकमिष्यते । लक्षाणि कुलकोटीनां, सप्ताष्ट नव च क्रमात् ॥ १५ ॥ इति योनिकुलसंख्या ॥ विवृता योनिरेतेषां त्रिविधा सा प्रकीर्त्तिता । सचित्ताऽचित्तमिश्राख्या, भावना तत्र दर्श्यते ॥ १६ ॥ जीवद्गवादिदेहोत्थकृम्यादीनां सचित्तका । अचित्तकाष्ठाद्युत्पन्नघूणादीनामचित्तका ॥ १७ ॥ सचित्ताचित्तकाष्ठादिसंजातानां तु मिश्रका । उष्णा शीता च शीतोष्णेत्यपि सा त्रिविधा मता ॥ १८ ॥ इति योनिवरूपं । द्व्यक्षाणां द्वादशाब्दानि भवेज्येष्ठा भवस्थितिः । यक्षाणां पुनरेकोनपञ्चाशदेव वासराः ॥ १९ ॥ पण्मासाचतुरक्षाणां जघन्याऽन्तर्मुहर्त्तकम् । साऽन्तर्मुहूतना त्वेषां स्वात्पर्याप्ततया स्थितिः ॥ २० ॥ इति भवस्थितिः ॥ ओघतो विकलाक्षेषु, कायस्थितिरुरीकृता । सङ्ख्येयान्दसहस्राणि प्रत्येकं च तथा त्रिषु ॥ २१ ॥ पर्याप्तत्वे तु नवरं द्व्यक्षकाय स्थितिर्मता । सोयान्येव वर्षाणि श्रूयतां तत्र भावना ॥ २२ ॥ भवस्थितिद्वन्द्रियाणामुत्कृष्टा द्वादशाब्दिकी । तादृग निरन्तरकियद्भवादानादसौ भवेत् ॥ २३ ॥ एवमग्रेऽपि — सङ्ख्येयदिनरूपा च पर्याप्तत्रीन्द्रियाङ्गिनाम् । पर्याप्तचतुरक्षाणां सङ्ख्येयमासरूपिका ॥ २४ ॥ इति कार्यस्थितिः ॥ कार्मणं तैजसं चौदारिकमेतत्तनुत्रयम् । इति देहाः ॥ केवलं हुण्डसंस्थानमेतेषां परिकीर्तितम् ॥ २५ ॥ इति संस्थानं ॥ योजनानि द्वादशेषां, त्रिगव्यूत्येकयोजनम् । क्रमाज्येष्ठा तनुर्लध्ध्यङ्गुलासयलवोन्मिता ॥ २६ ॥ आहुश्च - " बारसजोअण संखो
ational
For Private & Personal Use Only
१०
१४
w.jainelibrary.org