SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. ६ सगेः ॥ ९६ ॥ Jain Education ॥ अथ षष्ठः सर्गः प्रारभ्यते ॥ विकलान्यसमग्राणि, स्युर्येषामिन्द्रियाणि वै । विकलेन्द्रियसंज्ञास्ते, स्युर्द्वित्रिचतुरिन्द्रियाः ॥ १ ॥ तत्र प्रथमं भेदाः - अन्तर्जाः कृमयो देधा, कुक्षिपायुसमुद्भवाः । विष्ठाद्यमेधजाः कीटाः, काष्ठकीटा घुणाभिधाः | ॥ २ ॥ ( गण्डोला अलसा वंशीमुखा मातृवहा अपि । जलौकसः पूतरका, मेहरा जातका अपि ॥ ) नानाशङ्खाः शङ्खनकाः, कपर्दशुक्तिचन्दनाः । इत्याया द्वीन्द्रियाः पर्याप्तापर्यासतया द्विधा ॥ ३ ॥ इति द्वीन्द्रिय| भेदाः ॥ पिपीलिका बहुविधा, घृतेल्यश्चोपदेहिकाः । लिक्षा मर्कोटका थूका, गर्दभा मत्कुणादयः ॥ ४ ॥ इन्द्रगोपालिका सावा, गुल्मी गोमय कीटकाः । चौरकीटाः धान्यकीटाः, पञ्चवर्णाश्च कुन्थवः ॥ ५ ॥ तृणकाष्ठफलाहाराः, पत्रवृताशना अपि । इत्याद्या स्त्रीन्द्रियाः पर्याप्तापर्याप्ततया द्विधा ॥ ६ ॥ इति त्रीन्द्रियभेदाः ॥ वृश्चिका ऊर्णनाभाश्च, भ्रमर्यो भ्रमरा अपि । कंसार्यो मशकास्तिड्डा, मक्षिका मधुमक्षिकाः ॥७॥ पतङ्गा झिल्लिका दंशाः, खद्योता ढिङ्कणा अपि । रक्तपीतहरिकृष्ण चित्रपक्षाश्च कीटकाः ||८|| नन्द्यावर्त्ताश्च कपिल डोलायाश्चतुरि न्द्रियाः । भवन्ति तेऽपि द्विविधाः, पर्याप्तान्यतयाऽखिलाः ॥ ९ ॥ इति चतुरिन्द्रियाः ॥ ऊर्द्धाधोलोकयोरेकदेशभागे भवन्ति ते । तिर्यग्लोके नदीकूपतटाकदीर्घिकादिषु ॥ १० ॥ द्वीपाम्भोधिषु सर्वेषु, तथा नीराश्रयेषु च। षोढापि विकलाक्षाणां स्थानान्युक्तानि तात्त्विकैः ॥ ११ ॥ उपपातात्समुद्घातान्निजस्थानादपि स्फुटम् । असंख्येयतमे भागे, ते लोकस्य प्रकीर्त्तिताः ॥ १२ ॥ आहाराङ्गेद्रियोच्छ्वासभापाख्या एषु पञ्च च । पर्याप्त tional For Private & Personal Use Only एकेन्द्रियभेदानां अन्तरम् २० २५ ॥ ९६ ॥ २८ lainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy