Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 230
________________ लोक.द्रव्य. ७ सर्ग: ॥१०३॥ ऽल्पबहुता॥ तिर्यपश्चेन्द्रियाणां स्यादन्तमुहर्तसंमितम् । जघन्यमन्तरं ज्येष्ठं, त्वनन्तकालसंमितम् ॥९४ ॥ मनुष्यएतद्वनस्पतेः कायस्थितिं भुक्त्वा गरीयसीम् । पुनः पञ्चाक्षतिर्यक्त्वं, लभमानस्य संभवेत् ॥९५॥ यक्षादि खरूपम् तिर्यक्तनुभृत्वरूपमेवं मयोक्तं किल लेशमात्रम् । विशेषविस्ताररसार्थिना तु, सिद्धान्तवारान्निधयोऽवगाद्याः ॥९६॥(उपजातिः)विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनय:श्रीतेजपालात्मजः।काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सर्गो निर्गलितार्थसार्थसुभगः षष्टःसमाप्तःसुखम् ॥९॥ ॥ इति श्रीलोकप्रकाशे षष्ठः सर्गः समाप्तः ॥ ॥ सप्तमः सर्गः प्रारभ्यते ॥ संमूर्च्छिमा गर्भजाश्च, द्विविधा मनुजा अपि । वक्ष्ये संक्षेपतस्तत्र, प्रथमं प्रथमानिह ॥ १॥ अन्तर्वीपेषु षट्पञ्चाशत्यथो कर्मभूमिषु । पञ्चाधिकासु दशसु, त्रिंशत्यकर्मभूमिषु ॥२॥ पुरीषे च प्रश्रवणे, श्लेष्म सिङ्घाणयोरपि । वान्ते पित्ते शोणिते च, शुक्रे मृतकलेवरे ॥३॥ पूये स्त्रीपुंससंयोगे, शुक्रपुद्गलविच्युतौ । पुरनिर्द्धमने सर्वेष्वपवित्रस्थलेषु च ॥४॥ स्युर्गर्भजमनुष्याणां, संबन्धिष्वेषु वस्तुषु । संमूछिमनराः सैकं, शतं ते क्षेत्रभेदतः॥५॥ इति भेदाः ॥ स्थानमेषां द्विपाथोधिसार्धद्वीपद्धयावधि । स्थानोत्पादसमुद्घातैलॊकासङ्ख्यांश शगा अमी ॥६॥ इति स्थानं ॥ आरभ्य पञ्च पर्याप्तीस्ते म्रियन्तेऽसमाप्य ताः। प्राणा भवन्ति सप्ताष्टावेषां ॥१०॥ वाङ्मनसे विना ॥७॥ नव प्राणा इति तु संग्रहण्यवचूर्णी ॥ इति पर्याप्तिः॥ सङ्ख्या योनिकुलानां च, नैषां। Jain Education anal For Private Personel Use Only wwjainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288