Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 144
________________ ललितवि० 900000 "ज्ञानस्यापि " न केवलं मुक्तात्मनः " तद्धर्म्मत्वेन" मुक्तात्मधर्म्मत्वेन "तत्त्वाद्” अमूर्त्तत्वात् ततः किमित्याह – “विष - याकारताऽयोगतः” विषयस्येव - गोचरस्येवाकारः - स्वभावो यस्य तत्तथा तद्भावस्तत्ता तस्याः अयोगतः - अघटनात् “तत्त्वतो” ॥ ६३ ॥ निरुक्तवृत्त्या ज्ञायतेऽनेनेति करणसाधनज्ञानाभाव एव तदेव भावयति - निस्तरङ्गमहोदधिकल्पो हासौ - मुक्तात्मा, "तत्त | रङ्गतुल्याश्च महदादिपवनयोगतो वृत्तय इति" बुद्ध्यहङ्कारादिप्रकृतिविकारपवनसम्बन्धात्, वृत्तयो - विषयज्ञानादिकाः प्रवृत्तयः, "इति" एवं " तदभावात्" महदादिपवनयोगाभावात् “तदभावः " तरङ्गतुल्यवृत्त्यभावः, ततः किमित्याहएवं सर्वज्ञत्वानुपपत्तिरेवेति एतदप्यसत्, विषयग्रहणपरिणामस्याकारत्वात् तस्य चामूर्त्तेऽप्यविरोधात् अनेकविषयस्यापि चास्य सम्भवात्, चित्रास्तरणादौ तथोपलब्धेरिति ॥ " " एवं " वृत्त्यभावात् "सर्वज्ञत्वानुपपत्तिरेव" मुक्त्यवस्थायां, निराकारेण तु विज्ञानेन ग्रहणाभ्युपगमे विषयप्रतिनियमॐ स्याघटनात् "इतिः” परवक्तव्यतासमाप्तौ, “एतदपि” साङ्ख्योक्तम् “असद्" असुन्दरं, कुत इत्याह - " विषयग्रहणपरिणा| मस्य" विषयग्राहकत्वेन जीवपरिणतेरेव आकारत्वात्, तस्य च - उक्तरूपस्याकारस्य "अमूर्त्तेऽपि " मुक्तात्मन्यपि, न केवलं मूर्त्ते इत्यपेरर्थः, “अविरोधात् " केनाप्यबाध्यमानत्वात्, अभ्युच्चयमाह – “ अनेकविषयस्यापि च” युगपदनेकं विषयमाश्रित्य प्रवृत्तस्यापि च, किं पुनरेकविषयस्य, “अस्य” उक्तरूपाकारस्य “सम्भवात् " घटनात्, एतदपि कुत इत्याह-- “ चित्रास्त| रणादौ " चित्रे-प्रतीते आस्तरणे च-वर्णकम्बले आदिशब्दादन्यबहुवर्णविपयग्रहः “तथोपलब्धेः " युगपद्बहुविषयाकारोपलब्धेः स्वसंवेदनेनैव ॥ Jain Education International For Private & Personal Use Only 10000 पं० युता. ॥ ६३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258