Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 252
________________ ललितवि० ॥११७॥ Jain Education Inte ००००० ०००००० | देवयोगात् प्रणामादिका सदोषाऽपि सा "कास्येंन" सामत्येन “तगामिनी" धर्म्मगामिनी “न तु" न पुनः " तद्वाधनी” धर्म्मवाधिका" इति" एवं "हार्दा " ऐदम्पर्यान्तर्गवेषिणः, आहुरिति शेषः, कुत इदमित्थमित्याह तत्त्वाविरोधकं हृदयमस्य ततः समन्तभद्रता, तन्मूलत्वात्सकलचेष्टितस्य, एवमतोऽपि विनिर्गततत्तद्दर्शनानुसारतः सर्वमिह योज्यं, “तत्त्वाविरोधकं” देवादितत्त्वाप्रतिकूलं यतो हृदयम् अस्य - अपुनर्बन्धकस्य, न तु प्रवृत्तिरपि, अनाभोगस्यैव तत्रापराधि| त्वात्, "ततः” तत्त्वाविरोधकात् हृदयात् "समन्तभद्रता” सर्वतः कल्याणता, न तु प्रवृत्तेः केवलायाः, कुशलहृदयोपकारित्वात्तस्याः, तस्य च तामन्तरेणापि, क्वचित्फलहेतुत्वात्, कुत इत्याह-- “ तन्मूलत्वात् ” तत्त्वाविरुद्धहृदयपूर्वकत्वात् "सकलचे - | ष्टितस्य " शुभाशुभ रूपपुरुषार्थप्रवृत्तिरूपस्य " एवं " प्रस्थकदृष्टान्तवद् “अतोऽपि " जैनदर्शनादेव विनिर्गतानि – पृथग्भूतानि | तानि यानि दर्शनानि-नयवादास्तेषामनुसारतः, तत्रोक्तमित्यर्थः, “सर्व” दृष्टान्तजालम्" इह" दर्शने योज्यं, किंविशिष्टमित्याहसुतमण्डितप्रबोधदर्शनादि, न ह्येवं प्रवर्त्तमानो नेष्टसाधक इति, भग्नोऽप्येतद्यत्त्रलिङ्गोऽपुनर्बन्धक इति तं प्रत्युपदेशसाफल्यं, नानिवृत्ताधिकारायां प्रकृतावेवंभूत इति कापिलाः, न अनवाप्तभवविपाक इति च सौगताः, अपुनर्बन्धकास्त्वेवंभूता इति जैनाः, तच्छ्रोतव्यमेतदादरेण, परिभावनीयं सूक्ष्मबुद्ध्या १ ०गवे० प्र० २ तत्त्वाविरा० प्र० For Private & Personal Use Only 66006 पं० युता. ॥११७॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258