Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
शुष्केक्षुचर्वणप्रायमविज्ञातार्थमध्ययनं, रसतुल्यो ह्यत्रार्थः, स खलु प्रीणयत्यन्तरात्मानं, ततः संवेगा12 दिसिद्धेः, अन्यथात्वदर्शनात्, तदर्थं चैष प्रयास इति न प्रारब्धप्रतिकूलमासेवनीयं, प्रकृतिसुन्दरं | का चिन्तामणिरत्नकल्पं संवेगकार्यं चैतदिति महाकल्याणविरोधि न चिन्तनीय, चिन्तामणिरत्नेऽपि सम्यग
ज्ञातगुण एव श्रद्धाद्यतिशयभावतोऽविधिविरहेण महाकल्याणसिद्धिरित्यलं प्रसङ्गेन ॥ ___ "सुप्तमण्डितप्रबोधदर्शनादि" यथा कस्यचित् सुप्तस्य सतो मण्डितस्य कुङ्कुमादिना प्रबोधे-निद्रापगमे अन्यथाभूतस्यसुन्दरस्य चात्मनो दर्शनम्-अवलोकनमाश्चर्यकारि भवति, तथाऽपुनर्बन्धकस्यानाभोगवतो' विचित्रगुणालङ्कृतस्य सम्यग्दर्शनादिलाभकाले विस्मयकारि आत्मनो दर्शनमिति, आदिशब्दान्नावादिना सुप्तस्य सतः समुद्रोत्तीर्णस्य बोधेऽपि तीर्णदर्शनादि ग्राह्यमिति । दार्शन्तिकसिद्ध्यर्थमाह-"न" नैव"हिः" यस्माद् “एवं" प्रस्थककर्त्तनन्यायेन प्रवर्त्तमानोऽपुनर्बन्धको | "न" नैव न “इष्टसाधकः" प्रस्थकतुल्यसम्यक्त्वादिसाधकोऽपितु साधक एवेति, अपुनर्बन्धकस्यैव लक्षणमाह-"भग्नोऽपि" | अपुनर्बन्धकोचितसमाचारात्कथञ्चित् च्युतोऽपि"एतद्यललिङ्गः"पुनः स्वोचिताचारप्रयत्नावसेयोऽपुनर्बन्धकः आदिधार्मिक इति एतदिति-इदमेव प्रकृतं चैत्यवन्दनव्याख्यानमिति, “महेत्यादि" महतः-सञ्चैत्यवन्दनादेः कल्याणस्य-कुशलस्य विरोधि-बाधकमवज्ञाविप्लावनादि "न" नैव "चिन्तनीयम्" अध्यवसेयं, कुत इत्याह-चिन्तामणीत्यादि सुगमम् ॥
१०गतो प्र०
PROCCORGEORGEOUS
000000000000000000000
Jain Education
For Private & Personel Use Only
|www.jainelibrary.org
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258