Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
ललितवि०
॥ ११६॥
| इदमेव व्यतिरेकतः प्रतिवस्तूपन्यासेनाह – “न” नैव “हिः” यस्मात्“समग्र सुखभाक्” सम्पूर्णवैषयिकशर्मसेक्कः "तदङ्गहीनः” तस्य - समग्रमुखस्याङ्गानि — हेतवो वयोवैचक्षण्यदाक्षिण्यविभवौदार्यसौभाग्यादयस्तैहींनो -रहितो भवति, विपक्षे बाधक| माह — “ तद्वैकल्येऽपि” तदङ्गाभावेऽपि "तद्भावे” समग्रसुखभावे "अहेतुकत्वप्रसङ्गात् " निर्हेतुकत्वप्राप्तेरिति “सेय” मितिः | प्रणिधानलक्षणा "प्रशान्तवाहिते" ति प्रशान्तो- रागादिक्षयक्षयोशमवान् वहति - वर्त्तते तच्छीलश्च यः स तथा तद्भावस्तत्ता । परैरपि गीयते - अयमज्ञातज्ञापनफलः सदुपदेशो हृदयानन्दकारी परिणमत्येकान्तेन, ज्ञाते त्व| खण्डनमेव भावतः, अनाभोगतो भोगतोऽपि मार्गगमनमेव सदन्धन्यायेनेत्यध्यात्मचिन्तकाः ॥ तदेवं| विधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनं तदन्वाचार्यादीनभिवन्द्य यथोचितं करोति कुर्वन्ति वा | कुमहविरहेण । एतत्सिद्धये तु यतितव्यमादिकर्म्मणि परिहर्त्तव्योऽकल्याणमित्रयोगः सेवितव्यानि | कल्याणमित्राणि न लङ्घनीयोचितस्थितिः अपेक्षितव्यो लोकमार्गः माननीया गुरुसंहतिः भक्ति - व्यमेतत्तन्त्रेण प्रवर्त्तितव्यं दानादौ कर्त्तव्योदारपूजा भगवतां निरूपणीयः साधुविशेषः श्रोतव्यं विधिना धर्मशास्त्रं भावनीयं महायनेन प्रवर्त्तितव्यं विधानतः अवलम्बनीयं धैर्यं पर्यालोचनीया
१ ० सिद्ध्यर्थ.
Jain Education International
For Private & Personal Use Only
100000000000
पं० युता.
॥ ११६॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 248 249 250 251 252 253 254 255 256 257 258