Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 213
________________ || येनोच्यते-धर्मादिकरान्नमस्यामीति, उच्यते, श्रुतंज्ञानस्य तत्प्रभवत्वात् , अन्यथा तदयोगात् , || पितृभूतत्वेनावसर एषामिति, एतेन सर्वथा अपौरुषेयवचननिरासः, | "एतेनेत्यादि” एतेन-धर्मादिकरत्वज्ञापनेन सर्वथा-अर्थज्ञानशब्दरूपप्रकाशनप्रकारकात्स्न्येनापौरुषेयवचननिरासः, न पुरुषकृतं वचनमित्येतन्निरासः कृत इति गम्यते, वचनान्तरेणापि एनं समर्थयितुमाह| यथोक्तम्-"असम्भव्यपौरुषेयं” “वान्ध्येयखरविषाणतुल्यं अपुरुषकृतं वचनं विदुषामनुपन्यसनीयं विद्वत्समवाये, स्वरूपनिराकरणात् , तथाहि-उक्तिर्वचनम् उच्यत इति चेति पुरुषक्रियानुगतं रूपमस्य, एतक्रियाऽभावे कथं तद्भवितुमर्हति, न चैतत्केवलं क्वचिद् ध्वनदुपलभ्यते, __ यथोक्तं धर्मसारप्रकरणे वचनपरीक्षायाम्-असम्भवि-ज सम्भवतीत्यर्थः, अपौरुषेयम्-अपुरुषकृतं, वचनमिति प्रक्रमाद्गम्यते, इदमेव वृत्तिकृत् व्याचष्टे-बान्ध्येयखरविषाणतुल्यम्-असदित्यर्थः, अपुरुषकृतं वचनं, ततः किमित्याह-विदुषांसुधियां "अनुपन्यसनीय" पक्षतयाऽव्यवहरणीयं “विद्वत्समवाये" सभ्यपरिषदि, कुत इत्याह-"स्वरूपनिराकरणाद्” अपौरुषेयत्वस्य साध्यस्य धम्मिस्वरूपेण वचनत्वेन प्रतिषेधाद्, अस्यैव भावनामाह तथेत्यादिना कथं तद्भवितुमर्हतीति पर्यन्तेन, सुगमं चैतत्, प्रयोगः-यदुपन्यस्यमानं स्ववचनेनापि वाध्यते, न तद्विदुषा विद्वत्सदसि उपन्यसनीयं, यथा माता मे वंध्या, १ ज्ञानस्य प्र०. २ भाव्य० प्र०. ३ नेदम् प्र०. ४ नेदम् प्र०. 000000@@®®®®®00000 Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258