________________
|| येनोच्यते-धर्मादिकरान्नमस्यामीति, उच्यते, श्रुतंज्ञानस्य तत्प्रभवत्वात् , अन्यथा तदयोगात् , || पितृभूतत्वेनावसर एषामिति, एतेन सर्वथा अपौरुषेयवचननिरासः, | "एतेनेत्यादि” एतेन-धर्मादिकरत्वज्ञापनेन सर्वथा-अर्थज्ञानशब्दरूपप्रकाशनप्रकारकात्स्न्येनापौरुषेयवचननिरासः,
न पुरुषकृतं वचनमित्येतन्निरासः कृत इति गम्यते, वचनान्तरेणापि एनं समर्थयितुमाह| यथोक्तम्-"असम्भव्यपौरुषेयं” “वान्ध्येयखरविषाणतुल्यं अपुरुषकृतं वचनं विदुषामनुपन्यसनीयं विद्वत्समवाये, स्वरूपनिराकरणात् , तथाहि-उक्तिर्वचनम् उच्यत इति चेति पुरुषक्रियानुगतं रूपमस्य, एतक्रियाऽभावे कथं तद्भवितुमर्हति, न चैतत्केवलं क्वचिद् ध्वनदुपलभ्यते, __ यथोक्तं धर्मसारप्रकरणे वचनपरीक्षायाम्-असम्भवि-ज सम्भवतीत्यर्थः, अपौरुषेयम्-अपुरुषकृतं, वचनमिति प्रक्रमाद्गम्यते, इदमेव वृत्तिकृत् व्याचष्टे-बान्ध्येयखरविषाणतुल्यम्-असदित्यर्थः, अपुरुषकृतं वचनं, ततः किमित्याह-विदुषांसुधियां "अनुपन्यसनीय" पक्षतयाऽव्यवहरणीयं “विद्वत्समवाये" सभ्यपरिषदि, कुत इत्याह-"स्वरूपनिराकरणाद्” अपौरुषेयत्वस्य साध्यस्य धम्मिस्वरूपेण वचनत्वेन प्रतिषेधाद्, अस्यैव भावनामाह तथेत्यादिना कथं तद्भवितुमर्हतीति पर्यन्तेन, सुगमं चैतत्, प्रयोगः-यदुपन्यस्यमानं स्ववचनेनापि वाध्यते, न तद्विदुषा विद्वत्सदसि उपन्यसनीयं, यथा माता मे वंध्या,
१ ज्ञानस्य प्र०. २ भाव्य० प्र०. ३ नेदम् प्र०. ४ नेदम् प्र०.
000000@@®®®®®00000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org