Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 214
________________ ललितवि०पिता मे कुमारब्रह्मचारीति, तथा चापौरुषेयं वचनमिति, अभ्युच्चयमाह-"न च" नैव "एतद्" अपौरुषेयतयाऽभ्युप- पं० यता. लागतं वेदवचनं “केवलं" पुरुषव्यापाररहितं "क्वचिद् आकाशादौ "ध्वनत्" शब्दायमानम् "उपलभ्यते” श्रूयत इति, उप-16 ॥९८॥ | लभ्यत एव क्वचित् कदाचित्किञ्चिच्चेदित्याह उपलब्धावप्यदृश्यवकाशङ्कासम्भवात् तन्निवृत्युपायाभावात् अतीन्द्रियार्थदर्शिसिद्धेः,अन्यथातदयोगात्, ? ___ "उपलब्धावपि" श्रवणेऽपि क्वचिकनच्छब्दस्य “अदृश्यवक्राशङ्कासम्भवाद्” अदृश्यस्य पिशाचादेवक्तुराशङ्कासम्भवात्तेन भाषितं स्यादित्येवं संशयभावादसारमेतदिति सम्बध्यते, कुत इत्याह-"तन्निवृत्त्युपायाभावाद्" अदृश्यवक्राशङ्कानिवृत्तेरुपायाभावात् , न हि कश्चिद्धेतुरस्ति येन साशङ्का निवर्तयितुं शक्यत इति, एतदपि कुत इत्याह-"अतीन्द्रियार्थदर्शिसिद्धेः" अतीन्द्रियं-पिशाचादिकमर्थं द्रष्टुं शीलः पुरुष एव हि तन्निवृत्त्युपायः,तत एव पिशाचादिप्रभवमिदं स्वत एव वा ध्वनदुपलभ्यते इत्येवं निश्चयसद्भावाद्, व्यतिरेकमाह-"अन्यथा” अतीन्द्रियार्थदर्शिनमन्तरेण "तदयोगाद् अदृश्यवक्राशङ्कानिवृत्तेरयोगात् , यदि नाम अतीन्द्रियार्थदर्शी सिध्यति, ततः का क्षतिरित्याहal पुनस्तत्कल्पनावैयर्थ्यादसारमेतदिति, स्यादेतत्-भवतोऽपि तत्त्वतोऽपौरुषेयमेव वचनं, सर्वस्य सर्वदर्शिनस्तत्पूर्वकत्वात् “तप्पुवियाअरहया” इतिवचनात् , तदनादित्वेऽपि तदनादित्वतस्तथात्वसिद्धेः, ॥॥१८॥ १०चिद्घन० प्र०. २ ०मानवेन तद्भा० प्र०. GOOOGOOGGGGGGIOCO00 in Educatan i For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258