Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
Jain Education Int
मिष्यते सम्यक्त्वादि, मोक्षफलत्वेनेष्टत्वात् 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' ( तत्त्वार्थे अ० १ सू० १ ) इतिवचनादिति, अत्रोच्यते, विधिवाद एवायं न च सम्यक्त्वादिवैयर्थ्यं तत्त्वतस्तद्भाव एवास्य भावात्, दीनारादिभ्यो भूतिन्याय एषः, तदवन्ध्यहेतुत्वेन तथा तद्भावोपपत्तेः, | अवन्ध्यहेतुश्चाधिकृतफलसिद्धौ
' स्तुत्यर्थवाद इति' स्तुतये - स्तुत्यर्थ अर्थवादः - प्रशंसा स्तुत्यर्थवादो, विष्ठावनाद्यर्थमपि अर्थवादः स्यात्, तद्व्यवच्छेदार्थे स्तुतिग्रहणमिति, 'तत्त्वत इत्यादि' तत्त्वतो निश्चयवृत्त्या 'तद्भाव एव' सम्यग्दर्शनादिभाव एव 'अस्य' नमस्कारस्य भावादू, द्रव्यतः पुनरन्यथाऽप्ययं स्यादिति तत्त्वग्रहणं, इदमेव सदृष्टान्तमाह - 'दीनारादिभ्यो' दीनारप्रभृतिप्रशस्तवस्तुभ्यो 'भूति© न्यायो विभूतिदृष्टान्तस्तत्सदृशत्वाद् भूतिन्याय 'एषः ' सस्यक्त्वादिभ्यो नमस्कारः, एतदपि कुत इत्याह- ' तदवन्ध्य हेतुत्वेन' | तस्य - नमस्कारस्य साध्यस्यावन्ध्य हेतुत्वेन - नियतफल कारिहेतुभावेन सम्यक्त्वादीनां, 'तथा' भावनमस्काररूपतया 'तद्भावोॐ पपत्तेः' सम्यक्त्वादीनां परिणत्युपपत्तेः, भूतिपक्षे तु तस्याः - भूतेरवन्ध्यहेतुत्वेन दीनारादीनां तथा-भूतितया तेषां - दीना| रादीनां परिणतेः घटनादिति योज्या इति, भवतु नामैवं तथाऽपि कथं प्रकृतसंसारोत्तारसिद्धिरित्याशङ्कयाह - 'अवन्ध्यहेतुश्च' अस्खलितकारणं च " अधिकृतफलसिद्धौ” मोक्षलक्षणायां
000
For Private & Personal Use Only
9000090090980000000000
(d) www.jainelibrary.org
Loading... Page Navigation 1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258