Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 246
________________ पं० युता. ललितवि० कनाथस्याऽऽमन्त्रणमेतत् भावसन्निधानार्थं, 'भवतु मम त्वत्प्रभावतो' जायतां मे त्वत्सामर्थ्येन भग॥१४॥ वन् ! किं तदित्याह-'भवनिर्वेदः' संसारनिर्वेदः, न ह्यतोऽनिर्विण्णो मोक्षाय यतते, अनिविण्णस्य तत्प्र. तिबन्धात्, तत्प्रतिबद्धयत्नस्य च तत्त्वतोऽयत्नत्वात्, निर्जीवक्रियातुल्य एषः, तथा मार्गानुसारिता असदहविजयेन तत्त्वानुसारितेत्यर्थः,तथा"इष्टफलसिद्धिः” अविरोधिफलनिष्पत्तिः ___ "तीव्रसंवेगानां" प्रकृष्टमोक्षवाञ्छानां "आसन्नः" आशुभावी "समाधिः" मनःप्रसादो यत इति गम्यते, अत्रापि तारतम्याभिधानायाह-"मृदुमध्याधिमात्रत्वात्" मृदुत्वात्-सुकुमारतया मध्यत्वाद्-अजघन्यानुत्कृष्टतया, अधिमात्रतत्वात्-प्रकृष्टतया तीव्रसंवेगस्य “ततोऽपि" तीव्रसंवेगादपि किं पुनर्मन्दान्मध्याद्वा संवेगाद्विशेषत्रिविधः समाधिरासन्नाऽऽ सन्नतराऽऽसन्नतमरूपः, आदिशब्दान्मृदुना मध्येनाधिमात्रेण चोपायेन यमनियमादिना समवायवशात् प्रत्येकं मृदुमध्याधिमात्रभेदभिन्नतयो त्रिविधस्य समाधेर्भावात् नवधाऽसौ वाच्य इति ॥ 6 अतो हीच्छाविघाताभावेन सौमनस्यं, तत उपादेयादरः, न स्वयमन्यत्रानिवृत्तौत्सुक्यस्येत्ययमपि विद्वज्जनवादः,तथा"लोकविरुद्धत्यागः"लोकसंक्लेशकरणेन तदनर्थयोजनया महदेतदपायस्थानं, तथा १ समय०.२ भिन्ना तया प्र०. 0000000000000 100000000000 ॥११४॥ Jain Education Intemational For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258