Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
10 तस्याऽऽस्वादनम्-अनुभवो,ननु क्रियैव फलदा न तु ज्ञानं, यथोक्तं-"क्रियैव फलदा पुंसां,न ज्ञानं फलदं मतम् । यतः स्त्रीभ-|
क्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥१॥” इति, किं विवेकग्रहणेनेत्याशक्य व्यतिरेकतोऽर्थान्तरोपन्यासेनाह-"न" नैव "अविज्ञातगुणे" अनिणीतज्वराद्युपशमस्वभावे "चिन्तामणी' चिन्तारत्ने “यत्नः" तदुचितपूजाद्यनुष्ठानलक्षणो, | यथा हि चिन्तामणी ज्ञातगुण एव यत्नस्तथा श्रुतेऽपीति ज्ञानपूर्विकैव फलवती क्रियेति, ननु चिन्तामणिश्चिन्तामणित्वादेव समीहितफलः स्यात्, किं तत्रोक्तयत्नेनेत्याह-"न च” नैव "अन्यथा" अज्ञातगुणत्वेन यत्नाभावे "अतोऽपि" चिन्ता
मणेरपि आस्तां श्रुतज्ञानात् “समीहितसिद्धिः" प्रार्थितपरमैश्वर्यादिसिद्धिः, इदमेव दृढयन्नाहal प्रकटमिदं प्रेक्षापूर्वकारिणां, एकान्ताविषयो गोयोनिवर्गस्य, परमगर्भ एष योगशास्त्राणां,
अभिहितमिदं तैस्तैश्चारुशब्दैर्मोक्षाध्वदुर्गग्रहणमिति कैश्चित् तमोग्रन्थिभेदानन्द इति चान्यैः गुहाकान्धकारालोककल्पमपरैः भवोदधिद्वीपस्थानं चान्यैरिति, ___ "प्रकटमिदं" प्रत्यक्षमेतत् , "प्रेक्षापूर्वकारिणां" बुद्धिमतां प्रेक्षाचक्षुषो विषयत्वाद्यदुत ज्ञानपूर्वः सर्वो यत्नः समीहितसिद्धिफलो,व्यतिरेकमाह-"एकान्ताविषयः" सदाप्यसंवेद्यत्वात् , “गोयोनिवर्गस्य" बलीवईसमपृथग्जनस्य, पुनः कीदृगि| त्याह-"परमगर्भः" परमरहस्य, “एष" विवेको “योगशास्त्राणां षष्टितन्त्रादीनां, कुतो -यतः अभिहितमिदं-विवेकवस्तु "तैस्तैः" वक्ष्यमाणैः “चारुशब्दैः" सत्योदारार्थध्वनिभिः “मोक्षाध्वेत्यादि" प्रतीतार्थ वचनचतुष्कमपि, नवरं “मोक्षा
ஒருருருருருருருருOேCOCC4
0000000000000000000006
Endantem
For Private Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258