Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 233
________________ Jain Education Int २००००€ 090396 | त्पन्ने ये सिद्धास्ते तीर्थसिद्धाः, अतीर्थे सिद्धा अतीर्थसिद्धाः तीर्थान्तरसिद्धा इत्यर्थः, श्रूयते च “जिणंतरे | साहुवोच्छेओ"त्ति तत्रापि जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिध्यन्त्येव, मरुदेवीप्रभृतयो वा अतीर्थसिद्धाः, तदा तीर्थस्यानुत्पन्नत्वात् तीर्थकर सिद्धाः तीर्थकरा एव, अतीर्थकर सिद्धा अन्ये सामान्य - | केवलिनः, स्वयंबुद्धसिद्धाः स्वयंबुद्धाः सन्तो ये सिद्धाः, प्रत्येक बुद्धसिद्धाः प्रत्येकबुद्धाः सन्तो ये सिद्धाः, || अथ स्वयं बुद्धप्रत्येकबुद्धसिद्धयोः कः प्रतिविशेष इति उच्यते, बोध्युपधिश्रुतलिङ्गकृतो विशेषः, | तथाहि - स्वयं बुद्धा बाह्यप्रत्ययमन्तरेण बुध्यन्ते, प्रत्येकबुद्धास्तु न तद्विरहेण श्रूयते च बाह्यवृषभा| दिप्रत्ययसापेक्षा करकण्ड्वादीनां प्रत्येकबुद्धानां बोधिः, नैवं स्वयंबुद्धानां जातिस्मरणादीनामिति, | उपधिस्तु स्वयं बुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः, स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव लिङ्गप्रतिपत्तिः स्वयंबुद्धानामाचार्यसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण, बुद्धबोधितसिद्धा बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते, एते च सर्वेऽपि स्त्रीलिङ्गसिद्धाः केचित् " For Private & Personal Use Only 9009003990090095000969096 rww.jainelibrary.org

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258