Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
प्रतिपत्तेरज्ञातज्ञापनार्थ भेदाभिधानमित्यदोषः॥ इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा पुनरासन्नोपकारित्वाद्वर्त्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानवामिनःस्तुति (करोति) कुर्वन्ति (वा,)"जो देवा-10 णवि देवो, जं देवा पंजली नमसंति । तं देवदेवमहिअं,सिरसावंदे महावीरं ॥२॥” अस्य व्याख्या-यो' |भगवान्वर्द्धमानः देवानामपि' भवनवास्यादीनां देव पूज्यत्वात्, तथाचाह-'यं देवाःप्राञ्जलयो नम-1 स्यन्ति' विनयरचितकरपुटाः सन्तः प्रणमन्ति 'त' 'देवदेवमहितं' देवदेवाः-शकादयः तैर्महितः-18 पूजितः 'शिरसा' उत्तमाङ्गेनेत्यादरप्रदर्शनार्थमाह, वंदे, कं ? 'महावीरम्' ईर गतिप्रेरणयोरित्यस्य विपू-18 वस्य विशेषेण ईरयति कर्म गमयतियाति चेह शिवमिति वीरः महांश्चासौ वीरश्च महावीरः,उक्तश्च|| "विदारयति यत्कर्म, तपसा च विराजते। तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥"|| तं, इत्थं स्तुतिं कृत्वा पुनः परोपकारायाऽऽत्मभाववृद्ध्यै फलप्रदर्शनपरमिदं पठति पठन्ति वा ॥
'न नपुंसकलिङ्ग' इति नपुंसकलिङ्ग तीर्थकरसिद्धा न भवन्तीति योज्यम् ॥ "एकोऽवि णमोकारो, जिणवरवसहस्स वद्धमाणस्स। संसारसागराओ, तारेइ नरं व नारिं वा ॥३॥
ल.१९॥
Jain Education Intematona
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258