Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 195
________________ 000000000000 न्यलं मोहविषत्यागस्तथैवहि ॥ ३॥ शैवे मार्गेऽत एवासौ, याति नित्यमखेदितः । न तु मोहविषग्रस्त, इतरस्मिन्निवेतरः ॥ ४ ॥ "युक्त्यागमसिद्धं" युक्तिः-अन्वयव्यतिरेकविमर्शरूपा आगमश्च “जं जं समयं जीवो, आविस्सइ जेण जेण भावेण" इत्यादिरूपस्ताभ्यां सिद्ध-प्रतिष्ठितम् “एतत्" कारणानुरूपत्वं कार्यस्य, सिद्धयतु नामेदमन्यकार्येषु प्रकृते न सेत्स्यतीत्याह-"तल्लक्षणानुपाति च" युक्त्यागमसिद्धकारणानुरूपकार्यलक्षणानुपाति च विद्याजन्म, कुत इत्याह-इतिवचनादि|ति वक्ष्यमाणेन सम्बन्धो, वचनमेव दर्शयति "वर्चीगृहेत्यादिश्लोकपञ्चक" सुगमशब्दार्थ च, नवरं "इतरस्मिन्निवेतरः" इति यथा इतरस्मिन्-संसारमार्गे इतरो-मोहविषेणाग्रस्तो विवेकी नित्यमखेदितो न याति, तथा शैवे मार्ग मोहविषग्रस्तो न याति, खेदितस्तु कोऽपि कथञ्चित् द्रव्यत उभयत्रापि यातीति भावः, अभिप्रायः पुनरयम्-अनुरूपकारणप्रभवे हि विद्याजन्मनि विषयवैराग्यक्रियाज्ञानात्मके योगे सातत्यप्रवृत्तिलक्षणं च शिवमार्गगमनं तत्फलमुपयुज्यते नान्यथेति, | क्रियाज्ञानात्मके योगे, सातत्येन प्रवर्तनम् । वीतस्पृहस्य सर्वत्र, यानं चाहुः शिवाध्वनि ॥ ५॥"||४|| डाइतिवचनात् , अवसितमानुषङ्गिकं, प्रकृतं प्रस्तुमः, स हि कायोत्सर्गान्ते यद्येक एव ततो "नमो अरहंताणंति” नमस्कारेणोत्सार्य स्तुतिं पठत्यन्यथा प्रतिज्ञाभङ्गः, जाव अरहंताणं इत्यादिनाऽस्यैव || १०णमिति Jain Education Intens For Private & Personel Use Only m.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258