Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
sẽ
hệ thống tĩnh điện các vết
काश्चत्वार एव प्रतिहेतवः, एते च भावनाग्रन्थेनैव व्याख्याता इति न पुनः प्रयासः, परं "एतदशिनः” इति एषः| अधिकृतो धर्मों वशी-वश्यो येषां ते एतद्वशिन इति ।
विधिसमासादनेन १ विधिनाऽयमाप्तो भगवद्भिः, तथा निरतिचारपरिपालनतया २ पालितश्चातिचारविरहेण, एवं यथोचितदानतो ३ दत्तश्च यथाभव्यं, तथा तत्रापेक्षाभावेन ४ नामीषां दाने वचनापेक्षा १, एवं च तदुत्तमावाप्तयश्च भगवन्तः प्रधानक्षायिकधर्मावाप्या १ तीर्थकरत्वात्प्रधानोऽयं भगवतां, तथा परार्थसम्पादनेन २ सत्त्वार्थकरणशीलतया, एवं हीनेऽपि प्रवृत्तेः ३ __ "विधिसमासादनेनेति" विधिसमासादितो ह्यर्थोऽव्यभिचारितया वश्यो भवति, न्यायोपात्तवित्तवत् “तत्रेति” दाने | "वचनापेक्षेति" न हि भगवन्तो धर्मदाने अन्यमुनय इव पराज्ञामपेक्षन्ते, क्षमाश्रमणानां हस्तेन सम्यक्त्वसामायिकमारोपयामीत्याद्यनुच्चारणात् ॥
अश्वबोधाय गमनाकर्णनात् । "अश्वबोधाय गमनाकर्णनादिति,” अश्वस्य-तुरङ्गमस्य बोधाय-सम्बोधाय भगवतः श्रीमतो मुनिसुव्रतस्वामिनो भृगुकच्छे गमनश्रवणात् , तथाहि-किल भगवान् भुवनजनानन्दनो द्विषदुःसहप्रतापपरिभूतसमस्तामित्रसुमित्राभिधान
१०श्रवणा०प्र०॥
-துருருருருமுகமுருருஒரு
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org