Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 316
________________ २९४ काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः ] . निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ १०६ ॥ वक्ष्यमाणोक्तविषयः स आक्षेपो विधा मतः। विवक्षितस्य पाकरणिकत्वादनुपसर्जनीकार्यस्याशक्यवक्तव्यत्वमतिप्रसिद्धत्वं वा विशेष वक्तुं निषेधो निषेध इव यः स वक्ष्यमाणविषय उक्तविषयश्चेति द्विविध आक्षेपः। क्रमेणो- 5 दाहरणम् या शैशिरी श्रीस्तपसा मासेनैकेन बिभ्रती । तपसा तां सुदीर्घेण दूराद् विदधतीमधः ॥ 'तपो माघमासः, अन्यत्र तु अभ्युदयहेतुः कृच्छाचरणम् ।' इवादय .. अनुपात्ता अपि सामर्थ्यगम्याः। अत्र ‘तपसा ' इति श्लिटोक्तियोग्य पदं पृथगु- 10 पात्तम् , अतोऽयमपि लेषव्यतिरेक आक्षिप्ते औपम्ये उभयोपादाने सति ॥ . यथावा यद्यप्यान]नुपचरितस्तथापि तव नाच्युतस्तुली [स] भवेत् । स हरिर्नाम्ना देवः स हरिर्वरतुरगनिवहेन ।। देवशब्दः प्रकरणाद् युष्मदर्थे । हेत्वोरुक्तौ आयौँपम्यम् । अत्रापि श्लिष्टो- 15 क्तियोग्यस्य पदस्य पृथगुपादानम् ॥ एवमन्येऽपि एकादश भेदाः ।। ननु श्लेषव्यतिरेकयोरन्यत्र लब्धसत्ताकत्वात श्लेषोपकतत्वे व्यतिरेकस्याङ्गाजिमावे संकरत्वं स्यात् । सत्यम् , श्लेषगीकारेण व्यतिरेकलक्षणमंशमाश्रित्य एवंविधे श्लेषव्यतिरेकापरनामत्वान संकरः। ततस्तदनुचरणार्थमेवैष प्रकारो व्यतिरेकपकारतया व्यवस्थाप्यते ।। [१८॥] .. अशक्यवक्तव्यत्वमिति वक्ष्यमाणविषयस्य लक्षणम् ॥ अतिप्रसिद्धत्वमिति उक्तविषयम् ॥ निषेध इवेति । न तु निषेध एव, किंतु पाकरणिकस्यार्थस्य प्रस्तुतत्वादेव प्रधानस्य वक्तुमिष्टस्य विशेषपतिपतये निषेधाभासः। विधानाईस्प निषेधः कर्तुं न युज्यत इति निषेधाखेन विशेष एव तात्पर्यमित्यर्थः । स च निषेधो वक्ष्यमाणस्य स्यादिति द्वयी गतिः ॥ 25 . ननु, उक्तविषयत्वे कथं वक्तुमिष्टत्वं स्यात् । सत्यम् , उक्तमप्यादौ वक्तुमिष्टमेक, विशेषस्य च शब्दानुपात्तत्वाद् आदिमत्वम् । तत्र वक्ष्यमाणविषये कथनमेव निषिध्यते, उक्तविषये च वस्तु निषिध्यते ।।

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374