Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 344
________________ काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः ] वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैः दृष्टेवा भिन्न कुलमं कापि कण्ठे । पुंस्त्वं तन्व्या व्यनयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख ॥५३॥ अत्राकृतिमालोक्य कयापि वितर्कितं पुरुषायितमसिलतालेख- 5 नेन वैदग्ध्यादभिव्यक्तिमुपनीतम् । पुंसामेव पाणस्य पाणियोग्यत्वात् । यथा वा संकेतकालमनस विटं ज्ञात्वा विदग्धया। हसन्नेत्राप्तिाकूत लीलापनं निमोलितम् ॥५३२।। अत्र जिज्ञासितः संकेतकालः कयाचिदितिमात्रेण विदितो 10. निशासमयशंसिना कमळनिमीलनेन लीलया प्रतिपादितः। उत्तरोत्तरमुत्कर्षों भवेत्सारः परावधिः ॥१२॥ परः पर्यन्तभागोऽवधिर्यस्य । धाराधिरोहितया तत्रैवोत्कर्षस्य विश्रान्तेः । उदाहरणम् राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् । . सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥१२३॥ भिन्नदेशतयात्यन्त कार्यकारणभूतयोः । युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः ॥१२४॥ इह यद्देशं कारणं तद्देशमेव कार्यमुत्पधमानं दृष्टम् । · वक्त्रस्यन्दी 'ति । रत्नाकरस्य हरिविजये श्लोकोऽयम् । अत्र स्वेदकृतकुङ्कु- 20 मभेदरूपेणाकारेण संलक्षितं पुरुषायितं पाणौ पुरुषोचितखड्गलेखनेन प्रकाशितम् ॥ यथा वेति । इङ्गितात् ।। ' संकेने 'ति । 'संकेतकाले ज्ञातव्ये मनो यस्य स तथा'। अत्र संकेतकालाभिमायो विटसंबन्धिना भ्रक्षेपादिना इङ्गितेन लक्षितो रजनिकालभाविना लीलापअनिमीलनेन प्रकाशितः । साभिप्राया चेष्टा इजितं, निरभिमाया तु आकारः ॥ [४३॥] 25 पूर्वपूर्वापेक्षया उत्तरोत्तरस्य उत्कृष्टत्वनिबन्धनं सारः ॥ ‘राज्ये ' इति । अन 'राज्यापेक्षया वसुधायाः सारत्वं, वसुधापेक्षया तदेकदेशस्य गृहस्य' इत्यादि योज्यम् ॥ उत्कर्षे सारस्य पुंसि स्मरन्ति कवयस्तु नपुंसकेऽपीति ॥ ११९१२१॥ [४४॥]

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374