Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 366
________________ ७४ काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः । अननुरणन्मणिमेखलमविरतशिञ्जानमैंजुमचीरम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥५८०॥ __ अत्र वाच्यस्य विचिन्त्यमानं न किंचिदपि चारुत्वं प्रतीयत्त इत्यपरिपुष्टार्थतैयाँनुपासस्य वैफल्यम् ।। अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् । . 5 कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठातिमुद्धर ॥५८१॥ शारे परुषवर्णाडम्बरः पूर्वोक्तनीत्या विरुध्यत इति परुषानुमासेऽत्र प्रतिकूलवर्णता वृत्तिविरोधः। यमकस्य पादत्रयगतत्वेन यमनमप्रयुक्तत्वं दोषः । यथा- . भुजंगमस्येव मणिः सदम्भा ग्राहावकीर्णेव नदी सदम्भाः। 10 दुरन्ततां निर्णयतोऽपि जन्तोः कर्षन्ति चेतः मुखे सदम्भाः ॥५८२॥ उपमायामुप॑मानस्य जातिप्रमाणगतं न्यूनत्वमधिकता वा ताहश्यनुचितार्थत्वं दोषः । धर्माश्रये तु न्यूनाधिकत्वे यथाक्रम हीनपदत्वमधिकर्दतां च न व्यभिचरतः । क्रमेणोदाहरणम्चण्डालैरिव युष्माभिः साहसं परमं कृतम् ।।५८३॥ 15 वहिस्फुलिङ्ग इव भानुरयं चकास्ति ॥५८४। , अयं पद्मासनासीनश्चक्रवाको विराजते।। युगादो भगवान्वेधा विनिमित्सुरिव प्रजाः ॥५८५॥ पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ। वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ॥५८६॥ 20 · अकुण्ठे 'ति । अत्र शृङ्गारपतिकूला वर्णाः । शृङ्गारे हि उपनागरिकावृत्तिरुचिता ॥ 'सदम्माः सततपमः' । 'सदम्' इति सदेत्यस्यायें निपातश्छान्दसः ।। मणिशब्दः स्त्रीपुंसलिङ्गः । ' सत् शोभनमम्मो यस्याः' प्रमुखे आदौ ! सह दम्भेन वर्तन्ते सदम्भाः समायाः खला इत्यर्थः ।। 25 - तादृशीति जातिप्रमाणगता || ' चण्डालैः' इति । अत्र वाच्य साहस कारित्वमिव अस्पृश्यत्वाद्यपि व्यायमिति जातिगतं न्यूनत्वम् ॥ उपमेयस्य प्रमाणगतन्यूनत्वे, यथा- 'वही 'ति || प्रमाणाधिक्यं, यथा-'पातालम्' इति । 'पातः प्रवाहः ॥

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374