Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 365
________________ [ १० ६० उल्लासः ] काव्यप्रकाशः । वस्तुस्थितिमनपेक्ष्यैव लक्षिताः । योऽलंकारो यदाश्रितः स तदलंकार इत्यपि कल्पनायामन्वयव्यतिरेकावेव समाश्रयितव्यौ । तदाश्रयणमन्तरेण विशिष्टस्याश्रयाश्रयिभावस्याभावादित्यलंकाराणां यथोक्तनिमित्त एव परस्परं व्यतिरेको ज्यायान् । एषां दोषा यथायोगं संभवन्तोऽपि केचन । उक्तेष्वन्तः पतन्तीति न पृथक्प्रतिपादिताः || १४२ || तथा हि- अनुप्रासस्य प्रसिद्ध्यभावो वैफल्यं वृत्तिविरोध इति ये त्रयोऽनर्थास्ते प्रसिद्धिविरुद्धता में पुष्टार्थत्वं प्रतिकूलवर्णतां च यथाक्रमं न व्यतिक्रामन्ति तत्स्वभावत्वात् । क्रमेणोदाहरणम् चक्री चक्रारपङ्क्ति हरिरपि च हरीन्धूर्जटिधूर्ध्वजान्तानक्षं नक्षत्रनायोऽरुणमपि वरुणः कूबराग्रं कुबेरः । . रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचः सोऽवतात्स्यन्दनो वः ||५७८ ॥ अत्र वर्तृकर्ममति नियमेन स्तुतिरनुपासानुरोधेनैव प्रतिपादिता न पुराणेतिहासादिषु तथा प्रतीतेति प्रसिद्धिविरोधः । 15 ३४३ ॥५७९ ॥ 5 10 भण तरुणि रमणमन्दिरमानन्दस्य न्दिसुन्दरेन्दुमखि । यदि सलीलोल्लापिनि गच्छसि तत्किं त्वदीयं ते इति भावः ॥ ननु, लोकवदाश्रयाश्रयिभाव एव शब्दार्थालंकारत्वे निबन्धनमिति चिरं- 20 तनाः, तत् किमन्वयव्यतिरेकाभ्यामित्याह - योऽलंकारो यदाश्रित इति ॥ विशिष्टस्येति । यत्र आश्रयनित्यता नास्ति, नित्यत्वं हि यस्य न तस्य अन्वयव्यतिरेकौ निबन्धनमित्यस्य व्यतिरेकाभावात् । व्यतिरेको भिन्नत्वम् ॥ १३९ ॥ ६२ ॥ एषामिति अलंकाराणाम् ॥ उक्तेष्विति दोषेषु ॥ अनर्था इति । अनर्थ - शब्दोऽयं अपायोपनिपातवचनः, अपायश्च दोषः ॥ 25 " कूबराग्रं रथाग्रम् । रहो वेगम्' | प्रसिद्धिविरोध इति । तदा हि चक्रि- वकार प्रियत्वं संभाव्येतापि, उत्तराणि तु न संगच्छन्ते ॥ 'रमणमन्दिरं रतिवेश्म । ' ' रमणस्य प्रेयसो मन्दिरम्' इति व्याख्यायां तु' अकारणम्' इति असंगतं स्यात् ॥

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374