Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
३४२
काव्यादर्शनाम संकेतसमेतः [ १० द० उल्लासः ]
लिष्टाष्टदिग्दलकलाप मुखावतार_बद्धान्धकारमधुपावलि संचुकोच ॥ ५७७॥ अपदानुप्रविष्ट रूपकानुप्रासौ ।
तेनासौ त्रिरूपः परिकीर्तितः ॥ १४१ ॥ तदयमनुग्राह्यानुग्राहकतया, संदेहेन, एकपदप्रतिपाद्यतया व्यवस्थितत्वात्रिकारतयैव संकरो व्याकृतः । प्रकारान्तरेण तु न शक्यो व्याकर्तुम्, आनन्त्यात्तत्प्रभेदानामिति प्रतिपादिताः शब्दार्थोमयगतत्वेन त्रैविध्यजुपोऽलंकाराः ।
कुतः पुनरेष नियमो यदेतेषां तुल्येऽपि काव्यशोभा तिशय हेतुत्वे कश्चिदलंकारः शब्दस्य, कश्चिदर्थस्य, कश्चिच्चोभयस्येति चेत् । उक्तमत्र, यथाकाव्ये दोषगुणालंकाराणां शब्दार्थोभयगतत्वेन व्यवस्थायामन्वयव्यतिरेकावेव प्रभवतः, निमित्तान्तरस्याभावात् । ततश्च योऽलंकारो यदीयौभावाभावावनु विधत्ते स तदलंकारी व्यवस्थाप्यत इति । एवं च यथा पुनरुक्तवदामसं परम्परितरूपकं चोमयोर्भावाभावानुविधायितयोभयालंका तथा शब्द हेतु कार्थान्तरन्या सर्प्रभृतयोऽपि द्रष्टव्याः । अर्थस्य तु तत्र वैचित्र्यमुत्कटतयां प्रतिभासत इति वाच्यार्लोके तिमध्ये मिति ॥ अत्रैपदेति । यद्यपि सावयवमिदं रूपकमखिलवाक्यव्यापि तथापि प्रतिपदं रूपकसद्भावात् तथाव्यपदेश इत्येकपदानुप्रवेशो न विरुद्धः ॥ त्रिप्रकारतयैवेति । एतेन -
शब्दार्थवर्त्यलंकारा वाक्य एकप्रभाविनः । संकरो वैकवाक्यांशप्रवेशाद् वाभिधीयते ॥
-- इति भट्टोद्भटोक: संकरः संसृष्टावन्तर्भावित इति त्रेधैवायम् ॥ तत्प्रभेदेति । तस्य संकरस्य प्रभेदास्त्रयः प्रकाराः, तेषां भेदास्तत्तदलंकारयोगेन अचान्तरविशेषाः ॥
भावाभावाविति अन्वयव्यतिरेकौ ॥
ननु, पुनरुक्तवदाभासस्य तावच्छन्दस्य वैचित्र्यमुत्कट मिति उभयालंकारत्वमनपेक्ष्यैव शब्दालंकारत्वेनोक्तिः कृता, परंपरितरूपकादीनां तु किमर्थालंकारेषु पाठ इत्याह- अर्थस्य स्थिति । वस्तुत्या तु भिन्नाः प्रतिपादयितुमुचिता
5
10
15
20
25

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374