Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 362
________________ काव्यादर्शनामसंकेतसमेतः [१०६० उल्लासः ] किमु प्रदोषसमये विशेषणसाम्यादाननस्यावगतौ समासोक्तिः, आहोस्विन्मुखनैर्मल्यप्रस्तावादप्रस्तुनप्रशंसेति बहूनां संदेहादयमेव संकरः। ___ यत्र तु न्यायदोषयोरन्यतरस्यावतारस्तत्रैकतरस्य निश्चयान संशयः । न्यायश्च साधकत्वमनुकूलता । दोषोऽपि बाधकत्वं प्रतिकूलता । तत्र 'सौभाग्य वितनोति वक्त्रशशिनो व्योत्स्नेव हासधुतिः।' इत्यत्र मुख्यतयावगम्यमाना हाँसद्युतिवक्त्र एवानुकूल्यं भजत इत्युपैमीयाः सार्धनम्, "शशिनि तु न तथा प्रतिकूले ति रूपकं पति तस्या अबाधकता। 'वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरेभ्युद्यतः ।' इत्यत्रापरत्वमिन्दोरनुगुणं न तु वक्त्रस्य प्रतिकूलमिति रूपकसौधकतां मतिपद्यते, न तूपमाया बाधकताम् । 'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम् ।' दति' इति । एकक्रियायोगे एकस्य प्रकृतत्वेऽन्यस्य अप्रकृतत्वे दीपकं तुल्ययो- 15 गितेति यदि द्वयोरपि प्रकृतत्वमेव वा ॥ न संशय इति । यदि साधकं बाधकं वा प्रमाणमेकमेव स्यात् तदा एकतरस्यालंकारस्य निश्चयान्न संदेहसंकर इत्यर्थः॥ तत्रेति । साधकत्वबाधकत्वयोमध्यात् साधकत्वे, यथा- 'सौभाग्यम् ' इति । अत्र 'वक्रं शशीव' इत्युपमा । ननु, 'वक्रमेव शशी 'इति रूपकम् ' इत्याह - मुख्यतयेति । हासद्युतेः प्रकृतत्वात् 20 ज्योत्स्नापेक्षया मुख्यता । सा च वक्रस्यैव अनुगुणेति उपमायाः साधकं प्रमाणम् ॥ न तथेति । शशिन्यपि हासधुतेः शुक्रतया मनागानुकूल्यमस्तीति भावः । तस्या इति हासधुतेः ॥ यथा वा- 'वक्त्रेन्दौ' इति । उपमानप्राधान्ये रूपकं, उपमेयमाधान्ये तूपमा ॥ अत्र च 'वक्रमेवेन्दुः' इति रूपकं, तत इन्दोः प्राधान्यमिन्दौ चापरत्वं घटत इत्यानुकूश्यमेव रूपकस्य साधकं प्रमाण- 25 मित्याह-अपरत्वमिति ॥ अपरत्वस्येन्दौ विस्मयावहत्वाद आनुकूल्यं वक्त्रे चापरत्वं संभाव्यत एव, वक्रस्य बहुविधत्वात् ।। बाधकत्वे यथा- 'राजनारायणम् । इति । 'राजैव नारायणः' इति मयूरव्यंसकादित्वाद् रूपकसमासः, ततश्च उपमानस्य नारायणस्य प्राधान्यम् ।तं पति लक्ष्मीपयुक्तमालिङ्गनं घटत इत्यालिङ्ग..

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374