Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 361
________________ [ १०० उल्लासः ] काव्यप्रकाशः । एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥१४०॥ द्वयोर्बहूनां वालंकाराणामेकत्र समावेशेऽपि विरोधान्न यत्र युगपदवस्थानसमवो, न चैकतरस्य परिग्रहे साधकं तदितरस्य वा परिहारे बाधकमस्ति, येनैकतर ऐवं स परिगृह्येत, स निश्चयाभावरूपो द्वितीयः संकरः, समुच्चयेन संकरस्यैवाक्षेपात् । 5 उदाहरणम् जेह गंभिरी जह अणाणिभरो जह अनिम्मलच्छाओ। ती किं विहिणा*सो सुरसवाणीओ जलीनही *णे को।।५७४॥ - अत्र समुद्रे प्रस्तुते विशेषणसाम्यादपस्तुतार्थपतीतेः किमसौ समासोक्तिः, किमब्धेरप्रस्तुतस्य मुखेन कस्यापि तत्समगुणतया 10 प्रस्तुतस्य प्रतिपत्तेरियमप्रस्तुतप्रशंसेति संदेहः । यथा वानयनानन्ददायीन्दोविम्बमेतत्प्रसीदति । अधुनापि निरुद्धाशमपि शीर्णमिदं तमः ॥५७५॥ - अत्र च किं कामस्योद्दीपकः कालो वर्तत इति भङ्गयन्तरेणाभिधानात्पर्यायोक्तम् , उत वर्दैनस्येन्दुबिम्बतयाध्यवसानादतिश- 15 योक्तिः, कि ४०वैतदिति वक्त्रं निर्दिश्य तद्रूपारोपवशारकम्, अर्थवैतयोः समुच्चय विवक्षायां दीपकम् , अथवा तुल्ययोगिता, निश्चयाभावेति, न तु अनिश्चयाख्यः पृथगलंकारः ।। समुच्चयेनेति । एकस्य ' चेत्यत्र समुच्चयद्योतिना च-शब्देन ॥ 'सरसवाणिओ सरसपानीयः सरसवाणीकश्च'। 'ता'इति तथेत्यर्थे 20 निपातः ॥ 'आशा दिश आस्थाश्च । तमस्तिमिरं मोहश्च ॥ यथा वा तद्वक्त्रचन्द्रे नवयौवनेन श्मश्रुच्छलादुल्लिखितश्चकास्ति । . उद्दामरामादृढमानमुद्राविद्रावणो मन्त्र इव स्मरस्य ॥ -अत्र 'वकं चन्द्र इव 'इति किमुपमा, उत 'वक्त्रमेव चन्द्रः 'इति रूपक- 25 मिति साधकप्रमाणाभावे संशयः, उभयथापि समासस्य भावात, 'उपमितं व्याघ्रादिभिः' इति छुपमासमासो, व्याघ्रादेराकृतिगणत्वाद् । मयूरव्यंसकादित्वात्तु रूपकसमासः, तस्यापि आकृतिगणत्वात् ।। बहूनां वेत्यभिप्रायेण ' नयने 'त्युदाहरणम् ॥ एतयोरिति मुखबिम्बयोः । 'बिम्बं प्रसोदति 'इत्येतच्च ' मुखं प्रसी

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374