Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 360
________________ ZZ काव्यादर्श नामसंकेतसमेतः 1 उपमारूपकमुत्प्रेक्षा श्लेषश्वेति चत्वारोऽत्र पूर्ववदङ्गाङ्गितया प्रतीयन्ते । कलङ्क एवाक्षवलयमिति रूपकपरिग्रहे करधृतत्वमेव साधकप्रमाणतां प्रतिपद्यते । अस्य हि रूपत्वे तिरोहितकलङ्करूपैमैक्षवलयमेत्र मुख्यतयात्रगम्यते । तस्यैव च करग्रयता सार्वत्रिकी प्रसिद्धिः । श्लेषच्छायया तु कलङ्कस्य करधारणमसदेव प्रत्यासत्योपचर्य योज्यते, शशाङ्केन कॅलङ्कस्य मूर्त्यैवात् । कलङ्कोऽक्षवलयमिवेति तूपमायां कलङ्कस्योत्कटतया प्रतिपत्तिः । न चास्य करधृतत्वं तत्त्वतोऽस्तीति मुख्ये - प्युपचार एव शरणं स्यात् । एवंरूपश्च संकरः शब्दालंकारयोरपि परिदृश्यते । यथाराजति तटीयमभिहत - दानव-रासातिपाति-स - साराव-नदा ।' गजता च यूथमं विरति-दान- वरा सातिपाति सारा वनदा ||५७३ || अत्र यमकमनुलोमै तिलोमश्च चित्रभेदः पादद्वयगते परस्परापेक्षे । [ १० द० उल्लासः ] 5 10 1 इति उत्प्रेक्षा । 'पितृवने ' इति तु उपमाचमत्कृतिहेतुः ॥ पूर्ववदिति । तथा ह्यत्र उपमा श्लेषस्य उत्थापकतया उपकारिणी । श्लेषोऽपि तथैव रूपकोत्प्रेक्षायाः । 15 तैस्तु समस्तैः साक्षात् पारंपर्येण च यथासंभवमुपमा उपकृता । तद्रूपकृतैव सा सचेतसां चमत्कृतिं करोति । कलङ्कोऽक्षवलयमिवेति समासोपमायां कलङ्कस्य उपयस्य प्राधान्यं प्रतीयते । न च कलङ्कस्य करधृतत्वयोग्यता । 'कलङ्क एवाक्षवलयम्' इति तु रूपके वलयस्यैव उपमानस्य प्राधान्यम् | अक्षवचयस्य च करधृतत्वयोग्यतैव रूपकपरिग्रहे साधकं प्रमाणमित्याह - कलङ्क एवेतिं, न तु 'करै 20 रश्मिभिर्धृत कळङ्कश्चन्द्रः' इति ॥ त्रच्छाययेति । प्रत्यासत्येति । शशाङ्कतनौ कराः कलङ्कावेति प्रत्यासत्तिः मुख्येऽपीति ॥ उपमापक्षे कलङ्के ।। उपचार एवेति । न च तदाश्रयणं युक्तं, तस्य अगतिकगतित्वात् || , । 'अतिपातिनो जवेन व्रजन्तः सारावा नदा यत्र । तादृशीयं तटी भ्राजते । अभिहतो दानवानां रासः सिंहनादो येनेति शम्भोः संबोधनम् । सा 25 यं गता । यूथं गजसमूहम् अतिपाति परित्रायतेऽविरतिना संततेन दानेन । तंवरा श्रेष्ठा । सारा स्थिरा । वनं दयते रक्षति या, अवनं रक्षणं वा ददाति ' ॥ ननु, अत्र यमक चित्रयोः शब्दालंकारयोः शब्दवदुपकार्योपकारकत्वाभावेन अङ्गाङ्गिभावाभावात् संसृष्टिरेव परस्परनिरपेक्षेत्याह - परस्परापेक्षे इति । [ ६२॥]

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374