Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
काव्यप्रकाशः।
३४५
ता
..
[१०० उडासः ]
अत्र चण्डालादिभिरुपमानैः प्रस्तुतोऽर्थोऽत्यर्थमेव कथित इत्यनुचितार्थता।
स मुनिलाग्छितो मौज्या कृष्णाजिनपटं वहन् । व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ॥५८७॥
अत्रोपमानस्य मौजीस्थानीयस्तडिल्लक्षणो धर्मः केनापि पदेन 5 न प्रतिपादित इति हीनपदत्वम् । स पीतवासाः प्रगृहीतशाओं मनोज्ञभीमं वपुराप कृष्णः । शतहदेन्द्रायुधवानिशायां संमृज्यमानः शशिनेव मेघः ॥५८८॥
अत्रोपमेयस्य शतादेरनिर्देशे शशिनो ग्रहणमतिरिच्यत इत्यधिकपदत्वम् ।
लिवचनभेदोऽप्युपमानोपमेययोः साधारणं चेद्धर्ममन्यरूपं कुर्यात्तदैकतरस्यैव तद्धर्मसमन्वयावगते: सविशेषणस्यैव तस्योपमानत्वमुपमेयत्वं वा प्रतीयमानेनापि धर्मेण प्रतीयत इति प्रक्रान्तस्यार्थस्य स्फुटमनिर्वाहादस्य भग्नप्रक्रमरूपत्वम् । यथाचिन्तारत्नमिव च्युतोऽसि करतो पिछ मन्दभाग्यस्य मे ॥५८९॥ 15
सक्तवो भक्षिता देव शुदाः कुलवधूरिव ॥५९०॥ धर्मन्यूनत्वे, ‘स मुनिः' इति ॥
अन्यरूपमिति । उपमानरूपमुपमेयरूपं वा ॥ तस्येति धर्मिणः ॥ प्रतीयमाने. नापीति । शब्देन अनुपात्तेन उमयानुगमक्षमेण शब्दोपात्तच्युतत्वादिधर्मव्यतिरिक्तन केनचिदित्यर्थः ॥ अनिर्वाहादिति । सविशेषणत्वं निर्विशेषणत्वं वा यद 20 उपमेये प्रक्रान्तम् उपमाने तस्य अनिर्वाहादित्यर्थः ।।
'चिन्तारत्नम् ' इति । अत्र च्युतत्वमुपमानोपमेययोः साधारणो धर्मस्तस्यान्यरूपत्वं नपुंसकस्य, उपमेयविशेषणत्वे पुंस्त्वं, तत उपमेयस्य साक्षाधर्मसमन्वयः, उपमानस्य तु प्रतीयमान इति शब्देन धर्मेण प्रक्रमे भनप्रक्रमत्वम्। यदि तु विपरिणामेन लिङ्गवचसोरपरस्यापि संवन्धस्तदा अभ्यासलक्षणो वाक्यभेद: 25 स्यात् । द्वे वाक्ये स्यातामित्यर्थः । एवं च व्यवधानेन प्रकृतोऽयों न प्रतीयेत, विपरिणामश्च शास्त्रीयकाव्येषु न युक्तः ॥
यत्र सामान्याभिधायिशब्दभेदस्तत्रैव लिङ्गवचनमेदौ . दुष्टावित्याह -

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374