Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 373
________________ 10 [ १०० उल्लासः ] काव्यप्रकाशः । क्तयैव दोषजात्या अन्तर्माविता न पृथक्षतिपादनमहन्तीति ॥ संपूर्णमिदं काव्यलक्षणम् ।। - अत्र राजशब्द एवोभयार्थत्वाच्छशिनमाहेति श्लेषस्यायं विषयो युक्तः। यस्तु पृथक्त्वमुपादाय राजशशिनोरुपमानोपमेयभावनिबन्धः सोऽधिकः सद्यार्थ एव तद्विदां स्वदते, न शाब्दः ॥ एवम् -- 5 दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ - इत्यत्रापि श्लेषस्य विषये रूपकमामूत्रितमनादृत्य उपमानुरागिणा कविना सैवोपनिबद्धा। न चासौ ताभ्यां स्पर्धितुमुत्सहते तयोः, यथा पूर्व प्रतीयमानार्थसंस्पर्शातिरेकात तदनुविधायिनः सहृदयैकसंवेद्यस्य चमत्कारस्य संभवादिति उपमाधिक्यम् । यदाहुः ___वाच्यात् प्रतीयमानोऽर्थस्तद्विदां स्वदतेऽधिकम् । . . रूपकादिरतः श्रेयानलंकारेषु नोपमा ॥ किं तु नात्र साम्यमात्रं विवक्षितं, अपि तु समुद्रे यथेन्दुर्जातस्तथा तत्कुले स द्वितीयश्चन्द्र इति चन्द्राभेद एवं प्रतिपाद्यः । कुलस्य तु समुद्रसाम्यमेवाभिधिसितम् ॥ 15 विरोधस्य असंभवः, यथा या धर्मभासस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः । कृष्णापि शुद्धरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी ॥ - अत्र विरोधस्यैकाधारतयैव उपपत्तिरित्युक्तम् । ततो धर्मभास्तनयात्वादीनां शीतलत्वादीनां च धर्माणां भिन्नाधारतयोक्तौ विरोधस्य असंभवः ।। 20 ननु, तस्या नद्या जलानां च तत्त्वत एकत्वमिति न दोषः। सत्यम् , शब्दसमर्पितं नानात्वमनुभूयतेऽयं च विरोधः शाब्द एवेष्यते ॥ व्यतिरेके भनप्रक्रमत्वं, यथा तरंगय दृशोऽङ्गणे पततु चित्रमिन्दीवरं स्फुटीकुरु रदन्छदं व्रजतु विद्रुमः श्वतताम् । क्षणं वपुरपावृणु स्पृशतु काश्चनं कालिका मुदश्चय मनाङ्मुखं भवतु च द्विचन्द्रं नमः ॥ -- अत्र उपमानानामिन्दीवरादीनां निन्दाद्वारेण नयनादीनामुपमेयानां यस्तेभ्योऽतिशयो वक्तुं प्रक्रान्तः स मुखचन्द्रयो भवतु च द्विचन्द्रं नमः' इति 25

Loading...

Page Navigation
1 ... 371 372 373 374