Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________ काव्यादर्शनामसंकेतसमेतः [100 उल्लासः ] इत्येष मार्गों विदुषां विभिन्नोऽप्यभिन्नरूपः प्रतिभासते यत् / न तद्विचित्रं यदमुत्र सम्यग्विनिर्मिता संघटनैव हेतुः // 1 // इति श्रीमम्मटभट्टविरचिते काव्यप्रकाशेऽर्थालंकारनिर्णयो नाम. दशम उल्लासः / समाप्तश्चायं काव्यप्रकाशः / सादृश्यमात्रप्रतिपादनाद् न निव्यूढम् / भवतु लक्ष्यलक्ष्मा शशी' इति तु युक्तम् / तथा-तद्वक्त्रं यदि मुद्रिता शशिकथा तच्चेत् स्मितं का सुधा / सा चेद् कान्तिरतन्त्रमेव कनकं ताश्चेद्रोि धिङ् मधु। . सा दृष्टिर्यदि हारितं कुवलयः कि वा बहु ब्रूमहे . यत् सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः // . .10 - अत्रापि उपमानाद् उपमेयस्यातिरेको वक्तमिष्टः, तस्यार्थान्तरन्यासेन वस्तुसर्गपौनरुक्त्यस्य सादृश्यमाने पर्यवसानाद् भग्नप्रक्रमत्वम् / 'पुनरुक्तवस्तुविमुखः' इति तु युक्तम् // यद्यपि निर्दोषगुणालंकारमाज एव शब्दार्थयुगलस्य काव्यत्वं तथापि आवापोद्धारिक्या बुद्धया शब्दार्थालंकारगुणानां विवेक [:] कृत एवेत्यलंकार- 15 दोष एवायं, नार्थविरोधलक्षणोऽर्थदोषः॥ इत्येष इति / एष मार्गोऽद्भुतं वर्त्म विद्वदादीनां ध्वनिकारादीनां नानाग्रन्थ तया विभिन्नोऽप्यनेकरूपोऽपि एकरूपतया यद् भाति तत्र संघटना-विशंस्थुलस्य सुखप्रतीत्यर्थमेकत्र संग्रहः, सैव हेतुः, तद्वशाद एकात्मताप्रतीतेः / तत्तद्ग्रन्थानामत्र अन्तर्भाव इति भावः // 20 ___अथ च मुधियां विकासहेतुर्ग्रन्योऽयं कथंचिदपूर्णत्वाद अन्येन पूरितशेष इति द्विखण्डोऽपि अखण्ड इव यद् भाति तत्रापि संघटनैव संनिमित्तम् // - स्वीकृत्य कल्पतरुतो मरुतः परागं दृष्टेः क्षति विदधते जगतोऽपि किं तैः / भृङ्गः कृतो तु परितः सुमनोमुखेभ्यः पीतं मधूदमति येन मदं करोति // ॥छ // इति भट्टश्रीसोमेश्वरविरचिते काव्यादर्श काव्यप्रकाशसंकेते 25 दशम उल्लासः ॥छ / भरद्वाजकुलोत्तंस - भट्टदेवकमूनुना / सोमेश्वरेण रचितः काव्यादर्शः सुमेधसा / / संपूर्णश्च काव्यादर्शो नाम काव्यप्रकाशसंकेत इति शुभम् | छ // 6 छ 3 // छ / संवत् 1283 वर्षे / / आषाढ वदि 12 शनौ लिखितमिति ॥छ // 6 छ 3 // छ /

Page Navigation
1 ... 372 373 374